________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५५४ (A)
किमुक्तं भवति?- एतेषु व्यवहारेषु समुपस्थितेषु यथापरिपाट्या प्रायश्चित्तपरिमाणम् अभिधास्ये ॥१०४९ ॥ यथाप्रतिज्ञातमेव करोति।
गुरुगो य होइ मासो, गुरुगतरागो भवे चउम्मासो। अहगुरुगो छम्मासो, गुरुगयपक्खम्मि पडिवत्ती ॥ १०५०॥
[बृ. क. भा. ६२३७] गुरुको नाम व्यवहार: मास: मासपरिमाणः, गुरुके व्यवहारे समापतिते मास एकः प्रायश्चित्तं दातव्य इति भावः। एवं गुरुतरको भवति चतुर्मासः चतुर्मासपरिमाणः। यथागुरुकः षण्मासः षण्मासपरिमाणः । एषा गुरुकपक्षे गुरुकव्यवहारे त्रिविधे यथाक्रम प्रायश्चित्तप्रतिपत्तिः ॥१०५०॥
सम्प्रति लघुक-लघुस्वकव्यवहारविषयं प्रायश्चित्तपरिमाणमाहतीसा य पण्णवीसा, वीसा पन्नरसेव ये। दस पंच य दिवसाइं, लहुसगपक्खम्मि पडिवत्ती ॥ १०५१ ॥
[बृ. क. भा. ६२३८] १. अत्र १०५१ गाथाया द्वितीयचरणेऽनुष्टप्च्छन्दः ॥
सूत्र ७
गाथा १०५०-१०५४ ग्नानऽऽलोचकं प्रति व्यवहारः
५५४ (A)
For Private and Personal Use Only