________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ६५ (B)
उवयोगवतो सहसा, भएण वा पेल्लिए कुलिंगादी । अच्चाउराऽऽवतीसु य, अणेसियादीगहण-भोगा ॥ १०५ ॥
उपयोगवतोऽपि ईर्यासमितौ सम्यगुपयुक्तस्यापि उच्चालिते पादे कथमपि सहसायोगतः समापतितः सन् कुलिङ्गी व्यापद्यते, भयेन वा चौर-सिंहादीनां भृशं प्रपलायमाने, भयग्रहणं मूलगाथायामुपलक्षणं, तेन एतदपि द्रष्टव्यं-परेण वा पेल्लिए इति परेण प्रेरिते वा तद्व्यापारमासाद्य कुलिङ्गी, उपलक्षणमेतत् पृथिव्यादिजीवनिकायो वा, व्यापत्तिमाप्नुयात्। तथा अत्यातुरे क्षुधा पिपासया वा अत्यन्तपीडिते तथा आपत्सु द्रव्यापदादिषु यदि अनेषितादिग्रहण-भोगौ भवतः अनेषितम्-अनेषणीयम्, आदिशब्दादकल्पनीयस्य परिग्रहः। न केवलमनेषितादिग्रहण-भोगौ किन्तु गमना-ऽऽगमनादौ पृथिव्यादि-जन्तुविराधनाऽपि भवति तथापि तत्र प्रायश्चित्तं यथोक्तलक्षणम्, तदुभयमिति वर्त्तते, सहसाकारादिविषयत्वात् ॥ १०५ ॥
सम्प्रति 'महव्वयाइयारे य [गाथा-९९]' इत्येतद् व्याख्यानयन्नाह
.xxx
गाथा १००-१०५ तदुभयाईप्रायश्चित्तम्
६५ (B)
For Private And Personal Use Only