________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
पीठिका
३७ (A)
'आलोयणत्ति का पुण? कस्स सगासे व होइ कायव्वा? । केसु व कज्जेसु भवे? गमणाऽऽगमणादिएसुं तु ॥ ५४॥
का किंस्वरूपा पुनरालोचना? इति प्रथमतः प्रतिपाद्यं, तदनन्तरं कस्य सकाशे समीपे भवति कर्तव्याऽऽलोचना? इति वाच्यम्। तथा केषु कार्येषु भवत्यालोचना? तत्र प्रतिपत्तिलाघवाय सङ्कपतोऽत्रैव निर्वचनमाह- गमनाऽऽगमनादिकेषु गमने आगमने, आदिशब्दात् शय्या-संस्तारक-वस्त्र-पात्र-पादप्रोञ्छनकग्रहणादिपरिग्रहः। तुशब्दः विशेषणे, स चैतद् विशिनष्टि- गमनाऽऽगमनादिष्ववश्यकर्त्तव्येषु सम्यगुपयुक्तस्याऽदुष्ट- भावतया निरतिचारस्य छद्मस्थस्याऽप्रमत्तस्य यतेरालोचना भवतीति । आह- यानि नामाऽवश्यकर्त्तव्यानि गमनाऽऽगमनादीनि तेषु सम्यगुपयुक्तस्याऽदुष्टभावतया निरतिचारस्याऽप्रमत्तस्य किमालोचनया? तामन्तरेणापि तस्य शुद्धत्वात्, यथासूत्रं प्रवृत्तेः, सत्यमेतत्, केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुद्ध्यन्तीति तच्छुद्धिनिमित्तमालोचना। उक्तं च
गाथा ५४-५५ आलोचनास्वरूपम्
३७ (A)
१. नास्तीयं गाथा चूर्णी ॥
For Private And Personal Use Only