SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ३६ (B) एव कृते शुद्धिमासादयति, नान्यथा, यथाऽऽधाकर्मणि गृहीते, तद् विवेकार्हत्वात् विवेक:४। तथा व्युत्सर्गः कायचेष्टानिरोधः, यद् व्युत्सर्गेण-कायचेष्टानिरोधोपयोगमात्रेण शुद्ध्यति प्रायश्चित्तं, यथा-दुःस्वप्नजनितं, तद् व्युत्सर्गाऽर्हत्वाद् व्युत्सर्गः ५। 'तवत्ति' यस्मिन् प्रतिसेविते निर्विकृतिकादि-षण्मासपर्यवसानं तपो दीयते, तत् तपोऽर्हत्वात् तपः ६। यस्मिन् पुनरापतिते प्रायश्चित्ते सन्दूषितपूर्वपर्यायदेशावच्छेदः शेषपर्यायरक्षानिमित्तं दुष्टव्याधिसन्दूषितशरीरैकदेशच्छेदनमिव शेषशरीरावयवपरिपालनाय क्रियते, तत् छेदार्हत्वात् छेदः ७। 'मूलत्ति' यस्मिन् समापतिते प्रायश्चित्ते निरवशेषपर्यायोच्छेदमाधाय भूयो महाव्रतारोपणं तद् मूलार्हत्वान् मूलम् ८। येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यः सन् कञ्चित्कालं न व्रतेषु स्थाप्यते यावन्नाद्यापि प्रतिविशिष्टं तपश्चीर्णं भवति, पश्चाच्च चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थतार्हत्वादनवस्थताप्रायश्चित्तम् ९। 'पारंचिए चेवत्ति' 'अञ्चू गतौ च', यस्मिन् प्रतिसेविते लिङ्ग-क्षेत्र-काल-तपसां पारमञ्चति, तत् पाराञ्चितमर्हतीति पाराञ्चितम् १०। एष संक्षेपार्थः ॥५३॥ विस्तरार्थं तु प्रतिद्वारम् भाष्यकृदेव वक्ष्यति तत्र प्रथमद्वारम् 'आलोचना' इति विवरिषुरिदमाह गाथा ५४-५५ आलोचनास्वरूपम् ३६ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy