SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य ॥४१॥ तृतीयस्यां वेलायां स्खलितादिजातेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे द्वात्रिंशदुच्छ्वासाः प्रतिक्षपणीयाः चतुर्थे वारे स्खलितानां प्रवृत्तौ स्वस्थानात् विवक्षितादन्यत् स्थानं न गच्छति, उपलक्षणमेतत् नाप्यन्यत् प्रयोजनं प्रारभते, अवश्य भाविविघ्नसंभवात् संप्रति सुमिणदसणे रातो इति व्याख्यानयन्नाह ।।। पाणवहमुसावादे अदत्तमेहुणपरिग्गहे, सुमिणे सयमेगंति अणुणऊसासाण ब्भवेज्जासि ॥ भा०१२०॥ प्राणवधे मृषावादे अदत्तादाने मैथुने परिग्रहे च खग्ने कृते कारिते अनुमोदिते च केवलं मैथुने कारितेऽनुमोदिते एवं खयं कृते इत्थीविपरियासे इत्यादिना प्रायश्चित्तस्य वक्ष्यमाणत्वात् कायोत्सर्गः प्रायश्चित्रं, तत्र कायोत्सर्गे शतमेकमन्यूनमुच्छासानां क्षपयेत् पंचविंशत्युच्छ्वासप्रमाणं चतुर्षिशस्तवं चतुरो वारान् ध्यायेत् इति भावः अथवा अपरः प्रकारस्तमेव दर्शयति ।। महव्वयाइं ज्झाएज्जा सिलोगे पंचविंशति, इत्थीविप्परियासे सत्तावीस सिलोइओ ॥ भा० १२१ ॥ ___महाव्रतानि दशवकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत् तेषामपि प्रायः पंचविंशतिश्लोकमाणत्वात् यदिवा यान्तान्या स्वाध्यायभूतान् पंचविंशतिश्लोकान् ध्यायेत् स्त्रीविपर्यासे पुनः स्वमसंभूते प्रायश्चित्तं कायोत्सर्गः सप्तविंशतिश्लोकिकः सप्तविंशतिश्लोकवान् अष्टोत्तरशतमुच्छ्वासानां तन्निमित्ते कायोत्सर्गे क्षपयेदिति भावः, उत्सर्गे प्रमाण मेव निरूपयति ॥ पायसमाउसासा कालपमाणेण होंति नायव्वा; एवं कालपमाणं काउस्सग्गे मुणेयव्वं ॥भा० १२२ ।। उच्छासाः कालप्रमाणेन भवति ज्ञातव्याः पादसमाः किमुक्तं भवति यावत् कालेनैकश्लोकस्य पादश्चित्यते तावत्काल ॥४१॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy