SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | यदा भक्ताद्यर्थमन्यस्मिन् ग्राम गतः सन् विश्रमणनिमित्तमासितुकामाऽथवा यावन्नाद्यापि वेला च भवति तावत् प्रतीक्षितुकामो यदिवा प्रथमालिकां कर्तुकामो यदा शुन्यगृहादिषु प्रविशति तदैवमादिषु प्रयोजनेषु गमनमात्रेपि ऐपिथिकीप्रतिक्रमणपुरस्सरं कायोत्सर्गः प्रायश्चित्तं, तदनंतरं कार्यसमाप्तौ भूयः स्वोपाश्रयप्रवेशे आगमनमात्रे कायोत्सर्गः, शेषेषु प्रयोजनेष्वपांतराले विश्रामणासंभवे गमनागमनयोरिति वियारे इति विचारो नाम उच्चारादिपरिष्ठापनं, तत्रापि प्रायश्चित्तं कायोत्सर्गः. सुत्ते वा इति सूत्रे मूत्रविषयेषु उद्देशसमुद्देशानुज्ञाप्रस्थापनप्रतिक्रमणश्रुतस्कंधांगपरिवर्तनादिश्च विधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः, चासमुच्चये सुमिणेदंसणेराउ इति उत्सर्गतो दिवा स्वप्तुमेव न कल्पते ततो रात्रिग्रहणं रात्री स्वप्नदर्शने प्राणातिपातादिसावद्यबहुले कदाचिदनवद्यस्वप्नदर्शने वा अनिष्टमूचके उपलक्षणमेतत् दुःशकुनदुनिमित्तेषु वा तत्प्रतिघातकरणाय कायोत्सर्गकरणं प्रायश्चित्तं; नावा नइसंतारे इति नौश्चतुर्दा तद्यथा समुद्रनौ उद्यानी अवयानी तिर्यग्गापिनी च तत्र समुद्रनीः प्रवहणं येन समुद्रा लंध्यते, शेषास्तिस्रो नद्यां तत्रापि या नद्याः प्रतिश्रीतोगामिनी सा उद्यानी अनुस्रोतोगामिनी अवयानी या पुनर्नदी तिर्यक् छिनत्ति सा तिर्यग्गामिनी तत्र यतनयोपयुक्तस्य यथायोगं चतुर्विधयापि नावा तथाविधप्रयोजनोत्पत्तिवशतो गमने सूत्रोक्तविधिना कायोत्सर्गः प्रायश्चित्तं नदीसंतारश्चतुर्विधस्तत्र पादाभ्यां त्रिधा तद्यथा संघट्टः, लेपस्तदुपरि च तत्र जंघाचप्रमाणे उदकसंस्पर्श संघट्टः, नाभिप्रमाणे उदकसंस्पर्श लेप तत उपरि उदकसंस्पर्श तदुपरि चतुर्थो नदीसंस्तारो वाहूडुपादिभिः एतेष्वपि सर्वत्र यतनयोपयुक्तस्य प्रायश्चित्तं कायोत्सर्गः व्युत्सर्गः कायोत्सर्ग इत्यर्थातरमेप गाथासंक्षेपार्थः ।। सांप्रतमेनामेव गाथां विवरीपुर्येषु स्थानेषु गमनमागमनं गमनागमनं वा प्रतिक्रमणीयं संभवति यो विचारविषयो यत्प्रमाणं For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy