SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव डार सूत्रस्य ॥ २२ ॥ XX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिक्षायां विचारे बिहारे अन्येष्वपि चैवमादिकेषु कार्येषु आलोचनाप्रायश्चित्तं भवतीति वर्त्तते इयमत्रभावना गुरुमापृच्छय गुरुणानुज्ञातः सन् श्रुतोपदेशेनोपयुक्तः स्वयोग्यभिक्षावस्त्रपात्रशय्यासंस्तारकपादप्रच्छनादि यदिवा श्राचार्योपाध्याय स्थविरबालग्लान शैक्षकक्षप कासमर्थप्रायोग्य वस्त्रपात्रभक्तपानौषध्यादि गृहीत्वासमागतो विचारउच्चारभूमिस्तस्माद्वासमागतो विहारो वसतावस्वाध्याये स्वाध्यायमकृत्वा वसतेरन्यत्रगमनं, ततएवमादि ग्रहणाचैत्यवंदन निमित्तं पूर्वगृहीतपीठ फलक शय्या संस्तारकप्रत्यर्पणनिमित्तं वा बहुश्रुतापूर्व संविग्नानां वंदनप्रत्ययं वा संशयव्यवच्छेदाय वा श्राद्धस्य ज्ञात्यवषण्ण विहाराणा मवबोधाय साधार्मिकाणां वा संयमोत्साहनिमित्तं हस्तशतात्परं दूरमासनं वा गत्वा समागतोयद्यपि नास्तिकश्चिदतीचार स्तथापि यथाविधि गुरुसमक्षमालोचयितव्यमन्यथा सूक्ष्मचेष्टा निमित्तानां सूक्ष्मप्रमादनिमित्तानां वा क्रियाणां शुध्यभावात् श्रन्यच्च निरतिचारोपि यदि गुरोः समक्षं नालोचयति, ततोऽ विनयोभवति, अशुद्धपरिभोगो वा तथाचाह अविकटिते अनालोचिते अविनयो वा अशुद्धस्य वा परिभोगो भवेत् आलोचिते तूभयदोषाऽभावः नन्वविनयदोषा भावः स्याद शुद्ध परिभागाभावः कथं ? उच्यते केनापि साधुना भिक्षा प्रचुरासत्कारपुरस्सरा लब्धा, तस्य शंकितमुपजातं, किंनामेयं भिक्षा शुद्धाशुद्धावा, तत्रयद्यनालोच्यभुंक्ते ततोऽ शुद्धपरिभोगो भवति, तेन वालोचितं श्रचार्येण पृष्टमन्य दिवसेषुतस्मिन् गृहे कशी भिक्षा लभ्यत, कियंतोवा भोजनकारिणः ? प्राघूर्णका वाकेप्यागता, संखंडीवाजाता; इत्यादि विभाषाएव च पृष्टे तेन यथावस्थितं कथितं ततश्राचार्येण ज्ञाता शुद्धा अशुद्धा वा, तस्मादालोचयितव्यं, श्रन्यच्च, छाउमत्थो तहन्नहा वाहवेज्जउवजोगो, आलोएंतोउहइ, सोउंचवियाणइसोया ॥ भा ५८ ।। For Private and Personal Use Only →→*•*-*-**-*6*-*6. पीठिका ॥ २२ ॥
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy