________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च तं तथा प्रवर्त्तमानं दृष्ट्वा मा तथाप्रवृतिकापुरिति, स च व्यवहर्तुमिष्यमाणः पूर्वमेव वक्तव्यो, यथा आलोचय महाभाग स्वकृतमपराधमनालोचिताप्रतिक्रांतो हि दीर्घसंसारभाग्भवतीति, एवं च भण्यते यो ज्ञायते प्रतिपत्स्यते शिक्षावचनं प्रतिपद्य चाकृत्यकरणात् विरतो विरम्य च न भूयः प्रतिसेवीति, यस्तु तथा भण्यमानोपि न सम्यगकृत्यकरणादुपरमते, सोऽनुपरतो घटकारतुल्य शीलः कुंभकारसदृशस्वभावोऽवसन्नमध्यो द्रष्टव्यो न तु व्यवहर्त्तव्यः, अथ को सौ कुंभकारो यत्सदृशस्वभावः सन्न व्यवहर्तव्यः? उच्यते, कुंभकारसालाए साहू ठिया तत्थ आयरिएण साहू बुत्ता अजो? एसु कुंभगारभायणेसु अप्पमादी भवेजाह, मा भंजिहह तत्थ पमादी चेल्लगो कुंभगारभायणं भंजिऊण मिछामि दुकडं भणइ एवमभिक्खणं दिणे दिणे, ततो सो कुंभगारो रुटो, तं चेल्लग कियाडियाए घेतुं सीसे खडुक्कं दाउं खडंक्को नामटोल्लतो मिच्छामि दुक्कडं भणइ चेलओ भणइ, किं ममं निरवराहं पिदृसि ? कुंभगारो भणइ, भाणगाणि तए भंगाणि चेल्लो भणइ, मिच्छादुक्कडं कयं कुंभकारो भणइ मएवि | मिच्छादुक्कडं कयं, नत्थि कम्मबंधो मम तव पहारं देंतस्स, एसो कुंभगारमिच्छादुक्कडसरिस मिच्छादुक्कडो अन्दवहरियन्वो, | तदेवं तहय पादचेति व्याख्यातं संप्रति पियधम्मे य बहुसुए इत्यस्य व्याख्यानमाह ॥
पियधम्मोजावसुयंववहारन्ना उजेसमक्खाया, सव्वेवि जहादिट्टा ववहरियव्वाय ते होंति ॥ भा२६॥ |. इहायंतग्रहणे मध्यस्यापि ग्रहणमिति न्यायात् , पियधर्मबहुश्रुतग्रहणे तदंतरालवर्तिनामपि दृढधूमादीनां ग्रहणं, ततः प्रियधर्मण भारभ्य यावत् श्रुतं सूत्रार्थतदुभयविद इति पदं तावत् ये व्यवहारज्ञा व्यवहारपरिछेदकारः प्राक्समाख्यातास्ते सर्वेऽपि यथोद्दिष्टा यथोक्तस्वरुपा व्यवहर्त्तव्या भावव्यवहर्त्तव्या भवंति, प्रत्येतव्या इति शेषः, प्रियधर्मादितया सूत्रार्थतदु
For Private and Personal Use Only