SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ठवणाणमित्यादि स्थापनानामारोपणाभिः सह संवेधाः संयोगाः सर्वसंख्ययाः चत्वारि शतानि पंचषष्ठानि भवंति; ४६५ ॥ तथाहि प्रथमे विंशतिदिनरूपे स्थापनास्थाने त्रिंशदारोपणास्थानानि, द्वितीये पंचविंशतिदिनरूपे एकोनत्रिंशत तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावद्वक्तव्यं, यावत् पंचषष्टिदिनशतरूपे त्रिंशत्तमे स्थापनास्थाने एकमारोपणास्थानमेतानि च सर्वाण्यप्येकत्र लिखितानि, यथोक्तसंख्याकानि भवंतिः स्थापनाग्रहणे चारोपणापि गृह्यते; अनयोः परस्परसंवेधात्, तत एतदपि द्रष्टव्यमारोपणास्थानानां स्थापनाभिः सह संवेधाः, सर्वसंख्यया चत्वारि शतानि पंचषष्टीनि भवंति; तथाहि प्रथमे पंचदशदिनरूपे आरोपणास्थाने त्रिंशत् स्थापनास्थानानि, द्वितीये विंशतिदिनरूपे एकोनत्रिंशत्, तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावत् वक्तव्यं यावत् षष्ठिदिनशतप्रमाणे त्रिंशत्तमे आरोपणास्थाने एकविंशतिदिनं स्थापनास्थानमेतच्चसर्व प्रागेव सप्रपंचं भावितमेतानि च सर्वाण्यप्येकत्र मिलितानि यथोक्तसंख्याकानि भवंति, यथोक्तसंवेधसंख्यापरिज्ञानार्थमेव करणगाथामाह । गच्छत्तरसंवग्गो, उत्तरहीणंमि पक्खिवे आई। अंतिमधणमादिजुयं, गच्छद्धगुणं तु सव्वघणं ॥१८॥ इह यद्यपि प्रथम स्थाने त्रिंशदारोपणास्थानानि, द्वितीये एकोनत्रिंशत् तृतीये अष्टाविंशतिरिति क्रमस्तस्तथापि संकलनायां यथोत्तरमंका निवेश्यते, इत्येकद्विव्यादिक्रमः, तत्र गच्छः त्रिंशत् त्रिंशतोऽकस्थानानां भावादुत्तरमेकं, एकोत्तराया वृद्धर्भा| वात् , आदिरप्येकं सर्वांकस्थानानामादावेकस्य भावात् गच्छस्य त्रिंशत् उत्तरेण एकेन संवर्गो गुणनं, गच्छोत्तरसंवर्गस्तस्मिन् किमुक्तं भवतिः त्रिंशदेकेन गुण्यते, एकेन च गुणितं तदेव भवतीति जाता त्रिंशदेव, तत्र उत्तरहीणमिति उत्तरेणकेन हीनं, तस्मिन् कृते एकेन हीना त्रिंशत् क्रियते इत्यर्थः, जाताएकोनत्रिंशत् ततः प्रक्षिपेदादिममेकं जाता भूयस्त्रिंशत् एतदंतिमधन For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy