SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीध्यवहारपत्रस्यपीठिकानंतर। ॥४ ॥ मोल्लं ते चउत्थगस्स वाणि यगस्स दिण्णा पंचखरा पत्तेयं बारसमोल्ला ते पंचमस्स वाणियगस्स दिना एतदेवाह ॥ द्वितीयो विणिउत्तभंडभंडण माभंडह तत्थ एगोसट्ठीओ, दो तीस तिन्निवीस चउ पन्नरस पंचवारसग॥१७॥ विभाग पंचानां वणिजांसमभागसामाजिकानां विनियुक्तभांडानां विनियुक्तं व्यापारितं भांडं क्रयाण कं यैस्ते तथा तेषां पंचदश खरा अभूवनिति वाक्यशेषः, ते च विषमभारवाहिनो विषममून्याश्च ततो यद्यपि समविभागेन विभज्यमानरूपास्त्रयस्त्रयो भवति तथाप्यतुल्यमून्या इति, परस्परमंडनमभूत् तत्र एकोपरो मध्यस्थः समागत्य ब्रूते, मा भंडयताहं समविभागेन विभज्य दास्यामीति, तत्रैकः षष्ठिकः षष्ठिमूल्य एकस्य दत्त इति वाक्यशेषः, एवं द्वौ त्रिंशन्मूल्यौ द्वितीयस्य त्रयो विंशतिमूल्यास्तृतीयस्य, चत्वारः पंचदशमूल्याः चतुर्थस्य पंच द्वादशमूल्याः पंचमस्य, यथा तेषां पंचानां वणिजां पंचदश खराः परस्परमतुन्य मूल्यतया विभिन्नास्तथा केनापि विभज्य दत्ता, यथा तुल्या लाभप्राप्तिर्भवति, तथा साधूनामपि गीतार्थादिभेदानामनेकविधा| नामागमध्यवहारिणाश्रुत व्यवहारिणा वा तथा कंचनापि रासभस्थानीया मासा विभज्य दीयंते; यथा तुन्या विशोधिर्भवति इति एतदेवाहः कुसलविभागसरिसउ गुरुसाहूय होंति वणिया वा; रासभसमा य मासा, मोल्लं पुणरागदोसाउभा.१४८ कुसलो विभागे कुसलविभागः, राजदंतादित्वाभ्युपगमात् कुशलशब्दस्य पूर्वनिपातः तेन सदृशकस्तुल्यो गुरुरागम-* व्यवहारी श्रुतव्यवहारी वा साधवश्च भवंति वणिजइव वणिजतुल्या:, वा शब्द उपमानार्थः वा विकल्पोपमानयो रिति वचनात् , रासभसमश्चमासा मूल्यं पुन रागद्वेषा वेव तु शब्द एवकारार्थः तथाहि यथा रासभद्रव्यगुणवृद्धिहानितो ॥४६ ॥ THI: तेन सदृशका विकल्पोपमानमा ४६ ॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy