SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलेन अतिचारपंकप्रक्षालनतो निर्मलताशोधिः तथा दुष्करकरणं दुष्करकारिता तथाहि यत् प्रतिसेवनं तन्न दुष्कर, अनादिभवाभ्यस्तत्वात् यत् पुनरालोचनयति तत् दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात् तथा विणो इति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति निस्सलत्तमिति सशल्य आत्मा निःशल्यः कृतो भवतीति निःशल्यता एते शोधिगुणाः आलोचनागुणा आलोचनाशोधिरित्यनांतरत्वात् अथ कस्य समीपे आलोचना दातव्या उच्यते । आगमव्यवहारिणः श्रुतव्यवहारिणो वा तथाचाह । आगमसुयववहारी आगमतो छव्विहो उ ववहारो; केवलमणोहिचोदसदसनव्वपुव्वी नायव्वो॥१३५॥ आगमसुयववहारीति व्यवहारशब्दः प्रत्येकमभिसंबध्यते आलोचना) द्विविधस्तद्यथा आगमव्यवहारी श्रुतव्यवहारी च, | तत्रागमव्यवहारी षड्विधस्तद्यथा केवली केवलज्ञानी । मणोहित्ति पदैकदेशे पदसमुदायोपचारात् मनःपर्यायज्ञानी अवधिज्ञानी, चोदसदसनवपुवी इति पूर्विशब्दः प्रत्येकमभिसंबध्यते चतुर्दशपूर्वी दशपूर्वी नवपूर्वी ज्ञातव्यः एते चागमव्यवहारिणः प्रत्यक्षज्ञानिन उच्यते; चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् तथाहि येन यथा योतिचारः कृतस्तं तथा सर्वमेते जानंतीति । । पम्हुटे पडिसारण, अपडिवजं तयं न खलु सारे। जइ पडिवजइ सारे दुविहतियारंपि पच्चक्खी ॥१३६॥ | प्रत्यक्षीप्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं वातिचारमालोचयतो यत् किमप्यालोचनीयं पम्हुद्वेत्ति विस्मृतं भवति तस्मिन् विस्मृते प्रतिसारणं करोति यथाऽमुकं तवालोचनीयं विस्मृतमिति, तदप्यालोच For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy