SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य] पीठिकानंतरः। द्वितीयो विमाय:। ॥४२॥ द्रव्यतश्चेतनं सचित्तमुपलक्षणमेतत् मिश्रं वा अचित्तमचेतनं वा अकल्पिकं यत् प्रतिसेवितं, क्षेत्रतो जनपदे वा, कालतो दिने निशि वा सुभिचे दुर्भिक्षे वा भावे हद्वेयरे इति सप्तमी तृतीयार्थे दृष्टेन इतरेण वा ग्लानेन सता यतनया वा दर्पतः कल्पतो वा तत् आलोचयति कथमित्याह । जह बालो जंपतो जंपतो कजमकजं च उजुयं भणइ तं तह पालोएजा मायामयविप्पमुक्को उ ॥१॥ __ यथा बालो मातुः पितुर्वा पुरतो जल्पन कार्यमकार्य च ऋजुकमकुटिलं भणति । तथा आलोचकोपि मायामदविप्रमुक्तः सन् तत् आलोचयेत्ः यथा ऋजुकभावेनालोचयेत् आलोचनायाश्चमे गुणाः। लहुयाल्हादीजणणं अप्पपरनियतिअज्जवं सोही। दुक्करकरणं विणो निसल्लत्तं वसोहिगुणा ॥१३॥ ___लघो वो लघुता यथा भारवाही अपतभारो लघुर्भवति । तथा आलोचकोप्युध्धृतशल्यो लघुर्भवति इति लघुता । तथाल्हादनं न्हादिरौणादिक इप्रत्ययः । प्रल्हत्तिस्तस्य जननमुत्पत्तिोदिजननं प्रमोदोत्पाद इति यावत् तथा ह्यतिचारधम्मतप्तस्य चित्तस्य मलयगिरिपवनसंपर्केणेव आलोचनाप्रदानेनातीचारघापगमतो भवति संविग्नानां परममुनीनां महान् प्रमोद इति, तथा अप्पपरनियत्तित्ति आलोचना प्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृतांतं च दृष्ट्वा अन्येप्यालोचनाभिमुखा भवंति इति अन्येष्यामपि दोषेभ्यो निवर्त्तन मिति. तथा यदतिचारजातं प्रतिसेवितं तत् परस्मै प्रकटता आत्मन आजेवं सम्यग्विभावितं भवति आर्जवं नाम अमायाचिता तथा अतिचार पंकमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्त ॥४२॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy