SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् ८] पदार्थचन्द्रिकाटीकासहिता । ६९ तादृग्धनोपचयकृत्तरणिप्रचारा___ नोपैत्यहो वितरणित्वमसौ कदापि ॥ १०५ ॥ सृष्टिरेवास्य विफलेति मे दृष्टिः ॥ २९॥ तथा हिनास्त्येषामुपयुक्तता तटतरोः सस्योपयोगः कुतः ? न स्नानाय च योग्यताऽस्य पयसां का नाम पानार्हता ? ॥ उद्गजन्तैमियन्तमन्तरुषितैर्दुर्जन्तुभिर्भीषणम् स्रष्टुः सृष्टवतो जलाशयममुं कोऽवाशयः कथ्यताम् ? ॥ १०६ ।। यस्य खर्णश्रिय उरुतरा नित्यमायान्त्ययत्नात् तेन स्वायत्यनुगुणतया न क्रियेत व्ययश्चेत् ॥ वहिनासो भवति विधितो मन्थनं बन्धनं वा ___ लक्ष्मी प्रेप्सोर्जगदधिपतेरत्र साक्षी सरखान् ॥ १०७ ॥ समुद्रः, वितरणित्वं नौकारहितत्वं दातृत्वं च कदापि नोपैति न प्राप्नोति । नौभिः संचारं कृत्वा बहुधनसंचयकर्तुः पुरुषस्य दातृत्वरहितत्वमनुचितमिति श्लिष्टभावार्थः ॥ १०५ ॥ सृष्टिरिति । अस्य समुद्रस्य सृष्टिः सर्गोऽपि, विफला निष्फला व्यर्थेति यावत् । इति मे मम दृष्टिः अभिप्राय इत्यर्थः ॥ २९॥ यथेति । तदेवोपपादयति नास्तीति । अस्य समुद्रस्य एषां पयसामुदकानां " पयः कीलालममृतं जीवनं भुवनं वनम् । कबन्धमुदकं पाथः " इत्यमरः । तटतरोः तीरस्थवृक्षस्य उपयुक्तता उपयोगित्वं नास्ति, तर्हि सस्यानां फलानां धान्यानां वा उपयोगः कुतः स्यात् । एषां पयसामित्यनुषञ्जनीयम् । स्नानाय च स्नानं कर्तुमपि योग्यता न, तर्हि पानस्य प्राशनस्य अर्हता योग्यता का नाम ? अर्थान्नास्येव । तस्मात् उद्गर्जन्तं उच्चैः शब्दायमानं, इयन्तं एतादृशप्रमाणं महान्तमित्यर्थः । किंच अन्तः मध्ये उषितैः स्थितैः दुर्जन्तुभिः मकरादिदुष्टप्राणिभिः भीषणं भयंकरं च, एतादृशममुं जलाशयं समुद्रं, सृष्टवतः उत्पादयतः स्रष्टुब्रह्मणः को वा आशयः अभिप्रायः ? कथ्यताम् । मन्मते तु कोपि नास्तीत्यर्थः ॥ १०६॥ इदानीं श्लेषमूलकदृष्टान्तेन समुद्रस्यानुपयुक्ततामाह-यस्येति । यस्य पुरुषस्य उरुतराः अतिबहवः, स्वर्णस्य कनकस्य सुन्दरस्य अर्णसः जलस्य च, श्रियः समृद्धयः नित्यं प्रतिदिनं अयत्नात् प्रयत्नं विनैव आयान्ति, प्राप्नुवन्ति तेन तादृशपुरुषेण खस्य आयतेः प्राप्तेः अनुगुणतया अनुरूपत्वेन व्ययः दानादिरूपत्यागः, न क्रियेत १ 'तटतरौ'. २ 'उद्भर्जन्तमनन्त'. ३ 'विदितो'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy