SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [समुद्रमम त्वेधमानपरुषघोषे खल्वेतस्मिन् रोष एवोन्मिषति ॥२७॥ सन्ततं क्रन्दते सर्वो दीप्यमानोदरामये ।। महापाय-समुद्राय दरिद्रायैव कुप्यति ॥ १०४ ॥ समृद्धोऽप्ययमतिलुब्धतया बुद्धिमद्भिरनादृत्यः ॥ २८ ॥ पश्यरत्नाकरोऽपि च रमाभ्युदयालयोऽपि वर्णस्थैलीरधिगतोऽपि बहूँर्मिकोऽपि ॥ ममेति । किंच मम तु एधमानः वर्द्धमानः परुषः कठोरः घोषो गर्जना यस्य तस्मिन्नेतस्मिन् समुद्रविषये, खलु निश्चयेन रोष एव क्रोध एव "कोप-क्रोधामर्ष-रोष-" इत्यमरः । उन्मिषति प्रकटीभवति ॥ २७ ॥ रोषोन्मेषकारणं श्लेषेण समर्थयति-संततमिति । सर्वोपि जातावेकवचनम् । सर्व जना इत्यर्थः । महत् च तत् पायसं क्षीरानं च तस्मिन् मुदं राति गृह्णातीति तस्मै, प्रकृतपक्षे महत्यः आपः जलानि यस्मिन् तस्मै महापाय इति विशेषणम् । समुद्राय, दीप्यमानः प्रदीप्तः उदरामिर्जठराग्निर्यस्य तस्मै, पक्षे दीप्यमानः उदरे मध्ये अग्निर्वाडवानलः यस्य तस्मै अत एव संततं निरन्तरं क्रन्दते अहं क्षुधितः मह्यं देहि देहि इति रुदते, पक्षे गर्जते ( चतुर्थ्यन्तमेतत् ) दरिद्रायैव पक्षे दुर्गतये कुप्यति । न तु कश्चिदपि पुरुषः धनादिसंपन्नाय कुप्यति धनादिलोभात् , दरिद्रात्तु किमपि नैव लभ्यते तस्मात्तादृशायैवेति भावात्सुभाषितरूपोऽयं श्लोकः । श्लेषमूलकश्वार्थान्तरन्यासोऽलंकारः ॥ १०४ ॥ समृद्धोऽपीति । किंचायं समुद्रः समृद्धः रत्नादिसंपत्तियुक्तोऽपि, पुनरपि लुब्धतया लोभयुक्ततया हेतुना बुद्धिमद्भिः प्रशस्तबुद्धियुक्तैः अनादृत्यः आदरानहः ॥ २८॥ पश्येति । आदरानहत्वमेवोपपादयामीति भावः । रत्नाकर इति । अयं समुद्रः रत्नानां मौक्तिकविद्रुमादीनां कौस्तुभादिचतुर्दशरत्नानां च आकरः उत्पत्तिस्थानमपि "आकरो निवहोत्पत्तिस्थान श्रेष्ठेषु कथ्यते" इति विश्वप्रकाशः।रमायाः लक्ष्म्याः अभ्युदयस्य समृद्धेः उद्भवस्य च आलयः गृहमपि, खर्णस्थली: सुवर्णयुक्तस्थलानि सुष्ठ अर्ण: जलं “अम्भोर्णस्तोय-पानीय." इत्यमरः । तयुक्ताः स्थलीरिति च, अधिगतः प्राप्तोऽपि, बह्वयः ऊर्मिकाः अङ्गुलीयकानि तरङ्गाश्च यस्य सः “अङ्गुलीयकमूर्मिका" इति "भङ्गस्तरङ्ग ऊर्मिवा" इति चामरः । तरणीनां नावां प्रचारात् "स्त्रियां नौस्तरणिस्तरिः" इत्यमरः । तादृशः उक्तप्रकारः घनोपचयकृत् बहुसंचयकारकः अर्थाद्रव्यस्य । घनानां मेघानां उपचयकृत् वृद्धिकर्ता च, असौ १ दोष एव'. २ ‘समुद्रोऽपि'. ३ स्थिती'. ४ 'महोर्मिकोऽपि'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy