SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४४] पदार्थचन्द्रिकाटीकासहिता । २७२ अन्ये चात्र दीर्घवक्रनखरं खरकल्पा उद्धरन्त इव बाहुयुगं ते ॥ शौचमाचरितुमप्यसमर्था नीचेंबुद्धिहृदया विहरन्ति ॥ ५२६ ।। वि०-विमृश्यसखे गुणग्राहिणा नैतेऽपि दूषणीयाः ॥ २२४ ॥ शीतोष्णजृम्भणसहेषु जितेन्द्रियेषु कष्टोपवासपरिशुष्ककलेवरेषु ॥ पुण्यस्थलाटनपराकृतकिल्बिषेषु जानीहि कानपि गुणान् जटिलेष्वमीषु ॥ ५२७॥ अथ ज्योतिषिकवर्णनम् ४४. इत्यन्यतो वीक्ष्य साशङ्कम्क इमे पुस्तकहस्ताः कल्य एवोत्थाय तत इतः पर्यटन्ति ? ॥ २२५ ॥ दीर्घेति । दीर्घाणि आयतानि वक्राणि कुटिलानि च नखानि यस्मिन् तत् बाहुयुगं भुजद्वयं, ते पाषण्डाः उद्धरन्तः उत्क्षिपन्त इव सन्तः, अत एव खरकल्पाः गर्दभतुल्याः शौचमप्याचरितुं असमर्थाः, नीचा हीना बुद्धिनिश्चयो यस्मिन् तादृशं हृदयमन्तःकरणं येषां तथोक्ताः सन्तः विहरन्ति इतस्ततः क्रीडन्ति ॥ ५२६ ॥ सख इति । गुणग्राहिणा "गुण-दोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति ।" इति न्यायेन दोषसत्त्वेऽपि गुणमात्रस्वीकारपरेण पुरुषेण एते पाषण्डा अपि अपिना दोषबाहुल्यं द्योत्यते । न दूषणीयाः ॥ २२४ ॥ शीतोष्णेति । शीतं वर्ष-वातादि च उष्णं आतपादि च तयोः जृम्भणं अतिशयत्वं सहन्तीति तत्सहास्तेषु, अत एव जितेन्द्रियेषु कष्टाः दुःखप्रदा ये उपवासाः प्रदोष-शिवराज्यादिवनशनव्रतरूपास्तैः परिशुष्कं कृशीभूतं कलेवरं शरीरं येषां तथाभूतेषु पुण्यस्थलेषु वाराणसी-गोकर्ण-रामेश्वरादिक्षेत्रेषु अटनेन यात्रार्थ भ्रमणेन पराकृतं निरस्त किल्बिषं पापं यैस्तेषु अमीषु जटिलेषु कानपि वक्तुमशक्यान् गु. णान् जानीहि अवगच्छ । नहि तावदेतत्कष्टोपवासादि गृहिभिविषयिजनैश्च कर्तुं शक्यं तस्मादेते पूज्या एवेति भावः ॥ ५२७ ॥ क इति । इमे पुस्तकं पञ्चाङ्गादिकं हस्ते येषां ते जनाः कल्ये प्रातःकाले एवोत्थाय तत इतः गेहाद्नेहं पर्यटन्ति, भ्रमन्ति, ते के ? ॥ २२५ ॥ १ नखराः', २ 'नीचबुद्धिहृदयं भ्रमयन्ति'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy