________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६ विश्वगुणादर्शचम्पू:- [सेतु__ हन्त कठिनानामप्यमीषामतिमहती प्रीतिरनुबन्धिजने ॥ २०३ ॥ यतः
लङ्कापुरे पक्किमुखेन रुद्धां भूमेः सतां भूमिभृतोऽनुबन्धात् ॥
पति पुनः प्रापयितुं पयोधौ सेतूभवन्तः खयमाप्लवन्ति ॥ ४७५ ॥ निरूप्य
पयोधिमध्ये प्लवमानमूर्तयस्तरङ्गवेगार्पितफेनचिहिताः ।। हसन्ति किं मन्दरमन्तरर्णवं निमममेते नलसेतुभूधराः ॥ ४७६ ॥ पुनर्विमृश्य
लकापुरावासिरघूद्वहारिसंपर्कपापादिव सिन्धुराजः ॥ सपक्षभूभृन्निबिडान्तरोऽपि विपक्षभूभृद्भिरबन्धि कष्टम् ॥ ४७७ ।। शुद्धाः संश्रितधर्मसेतव इमे सोढोनवर्षातपाः स्थित्वा सिन्धुजले सदा क्षितिभृतो घोर तपः कुर्वते ॥
हन्तेति । कठिनानां कठोराणामपि अमीषां सेतुसंबन्धिनां शिला-पाषाणादिका. नामिति शेषः । अनुबन्धिजने खसंबन्धिजने अर्थात् सीताविषये अतिमहती प्रीतिः प्रेम, अस्तीति शेषः । हन्तेयानन्दे ॥ २०३ ॥
प्रीतिमेव विशदयति-लकापुर इति । भूमिभृतः सेतुसंवन्धिपर्वताः अनु. बन्धात् भूमिकन्यात्वात्सोदरसंबन्धादित्यर्थः । लङ्कापुरै दशानननगर्यो पनिमुखेन रावणेन रुद्धां भूमेः पृथिव्याः सुतां सीतां पुनः पतिं श्रीरामचन्द्रसंनिधि प्रापयितुं पयोधौ समुद्रे स्वयं सेतूभवन्तः सन्तः, आप्लवन्ति तरन्ति ॥ ४७५ ॥
किंच पयोधिमध्य इति । पयोधेः समुद्रस्य मध्ये प्लवमानाः तरन्तः मूर्तयो येषां ते, तरङ्गाणां ऊर्मीणां वेगैः जवैः अर्पितैः समर्पितैः फेनैः चिह्निताः कृतलाञ्छनाः एते नलो नाम रामसैनिकानां वानराणामेकतमः तन्निर्मितसेतुसंबन्धिनो भूधराः पर्वताः, अन्तरर्णवं समुद्रमध्ये निमनं मन्दरं नाम पर्वतं हसन्ति किं, उप. हासं कुर्वन्त्येवेति किमित्युत्प्रेक्षा ॥ ४७६ ॥
पुनरिति । विमृश्य विचार्य
लङ्केति । सिन्धुराजः समुद्रः लकापुरावासिनः रघूद्वहस्य रघुश्रेष्ठस्य रामचन्द्रस्य अरेः शत्रो रावणस्य संपर्कपापात् स्पर्शदोषादिव सपक्षाः समानमतस्थाः सुहृद इत्यर्थः । पक्षसहिताश्च ये भूभृतः राजानः पर्वताश्च तैः निबिडं धनं अन्तरं मध्य. भागो यस्य सः तथाभूतोऽपि विपक्षभूभृद्भिः शत्रुभूतराजभिः पक्षरहितैश्च पर्वतैः अबन्धि बद्धः, कष्टमिति खेदे ॥ ४७७ ॥
शुद्धा इति । संश्रितः आश्रितः धर्मस्य सेतुमर्यादा यैस्ते, पक्षे संश्रितः धर्मेण
For Private And Personal Use Only