SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४० विश्वगुणादर्शचम्पू:- [श्रीजम्बूकेश्वर सान्तःपुरस्सन्कवलितगरलो राजते राजतेऽद्रौ मह्यां सह्यात्मजाग्रे विहरति सुचिरं शंकरः शङ्खरोचिः ॥४४३॥ कृ०-सखे! नात्र स्थातव्यम् । यदिहं विश्वविलक्षणा रीतिरालक्ष्यते।। पश्य ये तोयैर्नादयैरभिषिक्तास्ते हि तापमुज्झन्ति ॥ प्रत्युत जहाति तापं कावेरी शंकराभिषेकेण ॥ ४४४ ॥ वि०-कुत एवम् ? ॥ कु०-शृणु तावत् गङ्गानुषङ्गाद्यमुना सदर्पत्यसयतापा बत सह्यकन्या ॥ गङ्गाधरे खैरभिषिच्यमाने तोयैः खयं तापमियं जहाति।।४४५॥ नाशने निपुणा चतुरा समर्थत्यर्थः । या दृक् तृतीयनेत्रं तस्यां यो वह्निरनिस्तेन संपन्नं जातं भालारुण्यं यस्य सः फण्यग्रगण्यानां सर्पश्रेष्ठानां महासर्पाणामि यर्थः । प्रकरमयतया समूहात्मकतया भीषणैः भयंकरभूषणैरलंकारैर्यः कान्तो मनोहरः। क्वचित् 'भीषणो' इति पाठः । तत्पक्षे भूषणैर्भीषण इति शंकरस्य विशेषणम् । अपि च कवलितं भक्षितं गरलं कालकूटं येन सः राजते रौप्यमये अद्रौ कैलासपर्वते यो राजते शोभते, स एव शङ्खवत् श्वेतवर्ण रोचिः कान्तिर्यस्य सः, सान्तःपुरः अन्तःपुरेण पत्न्या भगवत्या पार्वत्या सहितः सन् शंकरः शिवः, पूर्वोकैरलौकिकविशेषणैरतिसामर्थ्य कृपालुत्वं च शंकरस्य सूच्यते। मह्यां पृथिव्यां सह्यात्मजायाः कावेर्याः अग्रे तीरप्रदेशे जम्बूकेश्वरक्षेत्रे इत्यर्थः । सुचिरं बहुकालपर्यन्तं विहरति क्रीडति ॥४४३॥ सख इति । नात्र स्थातव्यम् । यत् यतः इह क्षेत्र विश्वविलक्षणा लोकविरुद्धा रीतिः आलक्ष्यते अवलोक्यते ॥ १८७ ॥ य इति । हि यस्मात् कारणात् ये जनाः नद्या इमानि नादेयानि तैः नदीशब्दात् "स्त्रीभ्यो ढक्' इति ढकू प्रत्ययः । तोयैरुदकैरभिषिक्ताः स्नाताः भवन्ति, ते तापं संतापं उज्झन्ति त्यजन्ति । प्रत्युत तद्विरुद्धत्वेनेत्यर्थः । कावेरी नदी शंकरस्य अभिषेकेण तापं जहाति त्यजति ॥ ४४४ ॥ कुत इत्यादि । कस्मात् कारणादेवं भवतीति प्रश्नः ॥ १८८ ॥ तदेव कारणमाह-गङ्गानुषङ्गादिति । गङ्गायाः अनुषङ्गात् संगमाद्धतोः यमुना नदी सदा गर्वसहिता इति, विचार्येति शेषः । इति हेतोर्वा । सह्यकन्या कावेरी असह्यः सोढुमशक्यस्तापश्चित्तसंतापो यस्याः सा तथाभूता सती, बतेति . १ स चिरं'. २ 'यदीह'. mona For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy