SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३५] पदार्थचन्द्रिकाटीकासहिता । समन्तात् पुरी निरीक्ष्य सश्लाघम्रङ्गादन्यदनगारेः कंसारेर्वा स्थलेष्वहो ।। किं दृष्टं ? किमपि क्षेत्रं सप्तप्राकारवेष्टितम् ॥ ४४१ ॥ अथ श्रीजम्बूकेश्वरवर्णनम् ३५. कु०-वयस्य मैवं वोचः ॥ १८५ ॥ अभ्यर्णेस्य पुरस्यैतदधिसह्यात्मजातटम् ॥ शैवक्षेत्रमवेक्षेथाः सप्तप्राकारसंवृतम् ॥ ४४२ ॥ वि०-विहस्य - सत्यं जटाधरप्राकारसंवृतस्यास्य श्लेषनैपुण्येनैव रङ्गसाधये समर्थनीयम् ।। निपुणं निरूप्यनन्दत्कंदर्पदर्पक्षपणनिपुणदृग्वह्निसम्पन्नभाला रुण्यः फण्यग्रगण्यप्रकरमयतया भीषणैर्भूषणैर्यः ।। किंच रङ्गादिति । अनगारेमंदनशत्रोर्महादेवस्य कंसारेविष्णोर्वा स्थलेषु स्थानेषु अहो हे कृशानो ! रङ्गात् श्रीरङ्गक्षेत्रात् अन्यदितरत् सप्तभिः प्राकारैः सालैर्वेष्टितं क्षेत्रं किमपि कुत्रापि वा दृष्टं किम् ? अपि तु नैवेत्यर्थः ॥ ४४१ ॥ अभ्यर्ण इति । यस्मादस्य पुरस्य श्रीरङ्गक्षेत्रस्य अभ्यणे समीपे “समीपे निकटासन्न-सन्निकृष्ट-सनीडवत् । सदेशाभ्याश-सविध-समर्याद-सदेशवत् । उपकठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोव्ययम् ।" इत्यमरः । अधिसह्यात्मजातटं कावेरीनदीतीरे, विभक्त्यर्थेऽव्ययीभावः । सप्तभिः प्राकारैः संवृतं वेष्टितं, पक्षे सप्तस्य जटाधरस्य (१) प्राकारैः संवृतं च एतत् प्रसिद्धं शैवक्षेत्रं शिवस्थानं जम्बूकेश्वराभिधं अवेक्षेथाः अवलोकय ॥ ४४२ ॥ सत्यमिति । सत्यं त्वदुक्तमित्यर्थः । यतः जटाधरस्य शंकरस्य प्राकारैश्चतु:संख्याकैः संवृतस्यास्य जम्बूकेश्वरक्षेत्रस्य श्लेषस्य सप्तशब्दसंबन्धिनोऽर्थद्वयस्येत्यर्थः । नैपुण्येनैव नतु वास्तवार्थेन संख्यापरेणेत्यर्थः । रङ्गस्य रङ्गक्षेत्रस्य साधय सादृश्यं समर्थनीयम् प्रतिपादनीयम् ॥ १८६ ॥ एवं कृशानुं प्रत्युत्तरय्य भगवन्तं शंकर वर्णयति-नन्ददिति । नन्दन, सकलविश्वजयेनानन्दं प्राप्नुवन् यः कन्दो मदनस्तस्य यो दर्पो गर्वस्तस्य क्षेपणे - - - १ 'पुण्याग्रगण्य'. २ 'भीषणो'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy