SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ विश्वगुणादर्शचम्पू:- [यज्ञवराह इदंतटे राजति देवनाय कः परोऽत्र सर्गादिवे देवनायकः ॥३८१॥ अथ श्रीमुष्णक्षेत्रयज्ञवराहवर्णनम् ३२ - इतरत्र विमानं प्रस्पन्दयन् सानन्दम्अद्य प्रत्नं पक्रिमं सच्चरित्रं देवः प्रीतः सुप्रभाता निशा मे ॥ श्रीमुष्णं यन्मुष्णदहःसहस्रं क्षेत्रं प्राप्त नेत्रयोः पात्रंभावम् ॥३८२॥ अत्र हि वरा वराहरूपिणी चराचरान्तरस्थिता सुरासुरानुसेविता धरार्धरादिदेवता ॥ नाकिनीमिति । धनानि बहूनि च यानि अघानि पापानि तेषां नाशिनी जलात् लघ्वी अल्पां, खल्पजलामिति यावत् । पिनाकिनी एतन्नामिकां नदी पश्य अवलोकय । तथा गरुडापगां नाम नदीमपि पश्य । किं वा एतयोरेतावन्माहात्म्यं यद्रष्टव्यं इत्याकाङ्क्षायामाह-इदंतट इति । एतयोः पिनाकिनी-गरुडनद्योस्तटे तीरे, सर्गात् प्राकृतप्रपञ्चात् परत्र इव परत एव तस्मादलिप्त इत्यर्थः । अत्र इवेति निश्चये। तत्त्वत एव प्रपञ्चातू परत्र वर्तमाने भगवती उत्प्रेक्षादेरसंभवात् । देवनायकः एतनामा कः परमात्मा विष्णु: "को ब्रह्मणि समीरात्म-यम-दक्षेषु भास्करे। मयूरेऽनौच पुंसि" इति मेदिनी । देवनाय क्रीडाथै राजति शोभते । भगवन्निवासाद्दर्शनीयमिदं स्थलमिति भावः ॥ ३८१ ॥ अथ श्रीमुष्णक्षेत्रस्थयज्ञवराहवर्णनं प्रतिजानीते । इदं च रामानुजीयानां प्रसिद्धस्थानानामेकतमं प्रियं च दक्षिणतः ‘अर्काडु' इति तद्भाषाप्रसिद्ध प्रान्ते वर्तते इति पुस्तकान्तरादुपलभ्यते। अद्येति । अद्य मे मम, एतदग्रेऽपि योज्यम् । प्रनं पुरातनं प्राग्जन्मकृतमिति यावत् । सच्चरित्रं सत्कर्माचरणं पक्रिमं फलाभिमुखं जातम् । देवो भगवान् प्रीतः तुष्टः, तथा निशा रात्रिः सुप्रभाता शोभनफलप्रदप्रातःकाला, जातेति शेषः । यद्यस्मात् कारणात् अंहसां पापानां सहस्रं मुष्णत् नाशयित । "मुष स्तेये' इति स्यादेर्धातोः शत्रन्तस्य रूपमिदम् । श्रीमुष्णं नाम क्षेत्रं मे मम नेत्रयोः पात्रभावं दृष्टिगोचरत्वमित्यर्थः । प्राप्तम् । तस्मादिति संबन्धः ॥ ३८२ ॥ पूर्वत्र 'मुष्णदंहःसहस्रं' इत्युक्तमेव सहेतुकमुपपादयति-वरेति । वरा सकलदेवश्रेष्टा चराचरयोः स्थिर-चञ्चलयोः अन्तरे चित्ते स्थिता, अन्तर्यामिरूपेणेत्यर्थः । सुरा देवा असुरा दैत्याश्च तैरनुसेविता, धरां पृथ्वी धरति उद्धारयतीति १ परत्र'. २ दिवि'. ३ 'नश्चरित्रम्'. ४ 'समस्त'. ५ 'प्राप्तभावम्'. ६ 'धराधराधिदेवता'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy