SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३१] पदार्थचन्द्रिकाटीकासहिता । २०७ __शृणु चेमं चमत्कारम् ॥ १६३ ॥ रक्ते भटे रणमुखे रुधिरेण तस्मिन् रक्ता भवत्यमरयोषिदनुव्रतेव ॥ शूरः स चेदतनुसायकखण्डिताङ्गः साऽप्युच्चकैरतनुसायकखण्डिते ३७९ किंचदीप्रोतिप्रेभमाश्रितक्षितितलं दिव्ये विमाने स्थितो गाढाश्लिष्टकृपाणपाणि च करग्रस्तामरस्त्रीस्तनः ।। तत्संदत्तनखक्षतो बहुतरप्रत्यर्थिबाणक्षतम् युद्धामौ हुँतजीवितं निजवपुर्वीरो मुदा वीक्षते ॥ ३८० ॥ अथ पिनाकिनीगरुडनदीश्रीदेवनायकवर्णनम् ३१. इत्यन्यत्र विमानं संचारयन् परितो दृष्ट्वापिनाकिनी पश्य धनाघनाशिनी जलाच्च लम्ची गरुडापगामपि ॥ अपि च रक्त इति । रणस्य युद्धस्य मुखे प्रारम्भे रुधिरेण रक्तेन "रुधिरेऽसू. ग्लोहितान-रक्त-क्षतज-शोणितम् ।" इत्यमरः । रक्ते रक्तवर्णे सति, तस्मिन् पुरुषे अमरयोषित् खर्गाङ्गना स्वर्वेश्येत्यर्थः । अनुव्रतेव पतिव्रतेव रक्ता रक्तवर्णा अनुरागयुक्ता च भवति । किं च सः शूरः पुरुषः अतनुभिर्बहुभिः सायकैः बाणैः खण्डितानि छिन्नान्यङ्गानि यस्य सः तथाभूतश्चेत् भवति, तर्हि सापि स्वर्गाङ्गनापि उच्चकैः अतिशयेन अतनुसायकैः बहुभिर्वाणैः, अतनोः मदनस्य च बाणैः खण्डितेव छिनेव भवति ॥ ३७९ ॥ किंच दीप्र इति । वीरः अत एव दीप्रः तेजस्वी, दिव्ये विमाने स्थितः कराभ्यां ग्रस्तौ धृतौ अमरस्त्रियाः देवाङ्गनायाः स्तनौ येन सः, तया अमरस्त्रिया दत्तानि नखानां क्षतानि व्रणानि यस्मै सः तथाभूतश्च सन्, पूर्व आश्रितं क्षितितलं पृथ्वीतलं येन तत्, गाढं यथा तथा आश्लिष्टः कृपाणः खड्गः येन तथाभूतः पाणिहस्तो यस्मिन् तत्, बहुतराणां अतिबहूनां प्रत्यर्थिनां शत्रूणां "दस्यु-शात्रव-शत्रवः । अभिघाति-पराराति-प्रत्यर्थि-परिपन्थिनः ।" इत्यमरः । बाणानां क्षतानि यस्मिन् तत्, तदेव युद्धाग्नौ हुतं जीवितं यस्य तत् अत एव अतिप्रभं अतिशयकान्तियुक्तं निजवपुः स्वकीयशरीरं मुदा आनन्देन वीक्षते अवलोकयति ॥ ३८० ॥ ___ इदानी पिनाकिनी-गरुडनद्योरधिपतिं देवनायकाभिधं भगवन्तं वर्णयति-पि १ 'खण्डिताङ्गा'. २ दीप्रो विप्रभमाश्रितक्षितितलं', 'दीप्तोपि प्रभ याश्रितक्षितितरूं', 'दीपोऽप्यप्रभमाश्रितं क्षितितलं'. ३ 'जीवितो', 'जीविते'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy