SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २९] पदार्थचन्द्रिकाटीकासहिता । २०१ नार्यन्तरेष्विव न निन्दति नन्दनानाम् निष्पादनं किमनघेऽपि निजे कलत्रे ॥ ३६७ ॥ . . . इदमप्यवगन्तव्यम् ऋत्विग्विशुद्धिविरहादतिशङ्कया चेत् . केचित्कलौ जहति नित्यमपि क्रतुं ते ॥ - मुञ्चन्ति गुर्वशुचिताविशयेन किं न चक्राङ्कवैष्णवमनुग्रहणादि सर्वम् ॥ ३६८ ॥ किंच सर्वेदैः स्मृतिगणयुतैः सेतिहासैः पुराणैः शिष्टाचारैरपि नियमितानध्वरान्मध्वरातेः ॥ आज्ञासिद्धानहह जहतस्तद्विरुद्धानि कृत्यान्यातन्वन्तः कतिचिंदपरानप्यमी शिक्षयन्ति ॥ ३६९ ॥ सनं वधश्च तस्मिन्नपि जुगुप्सां निन्दा भजते चेत्, यज्ञीयपशुहिंसनमपि निन्धं मन्यते चेदित्यर्थः । तर्हि नार्यन्तरेष्विव परस्त्रीष्विव नन्दनानां पुत्राणां निष्पादनमु. त्पादनं, अनघे पातिव्रत्यादिनीधर्मसंपन्नत्वानिर्दोषे निजे खकीये कलत्रे भार्यायामपि पुत्रोत्पादनं किं कस्माद्धेतोन निन्दति ? ऋतुकाले स्वस्त्रीसङ्गस्य यज्ञकर्मणि पशुवधस्य चापि शास्त्रेणैव विहितत्वादुभयमपि तुल्यमिति भावः ॥ ३६७ ॥ अपि च ऋत्विगिति । ऋत्विजां विशेषेण या शुद्धिः यथार्थानुष्ठानरूपा तस्याः विरहादभावाद्धेतोः अत एव अतिशङ्कया 'सम्यक्तया अनुष्ठानं भवेद्वा न भवेत्' इति संशयेन केचिजनाः कलौ युगे नित्यमपि क्रतुं पञ्चमहायज्ञान्तर्भूतं वैश्वदेवादियज्ञमपि, दर्श-पूर्णमासादिरूपं वा जहति त्यजन्ति चेत्, तर्हि ते जनाः गुरोः आचार्यस्य अशुचितायाः अपवित्रतायाः विशयेन संशयेन चकाङ्कः चक्रचिह्न चक्र-शङ्खादिमुद्राधारणमिति यावत् । वैष्णवमनुः दीक्षाग्रहणकाले उपदेष्टव्यो नारायणाष्टाक्षरमन्त्रः तस्य ग्रहणं च ते आदी यस्य तत् सर्व पञ्चसंस्कारादिरूपं किं कुतः कारणात् न मुञ्चन्ति । पञ्चसंस्कारास्तु प्रागुक्ताः । एवं च यथा चक्राङ्कादिधारणं त्यक्तुं न युक्त तथैव वेदविहितयज्ञाद्यनुष्ठानमपि त्यक्तुं न युक्तमिति भावः ॥ ३६८ ॥ __ श्रुति-स्मृति-पुराणविहितयज्ञकर्माननुष्ठानमनुचितमिति सखेदमाह-सर्वर्वेदैरिति । सर्वैर्वेदैः, स्मृतिगणयुतैः मनु-याज्ञवल्क्य-पराशरप्रोक्तस्मृतिसमूहसहितैः, सेतिहासैः महाभारतादिपुरावृत्तस हितैः पुराणैः पाद्म-वैष्णवादिभिः, शिष्टाचारैश्चापि नियमितान अवश्यकर्तव्यत्वेन प्रतिपादितान् मध्वरातेः श्रीविष्णोः आज्ञासिद्धानपि १ 'विरहादिविशङ्कया'. २ 'ये'. ३ 'इतरान् '. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy