SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०० www. kobatirth.org विश्वगुणादर्शचम्पू: च हिंसाकृत्प्रत्यवेयादिति कथयति यो वेद एवैष यागे पश्वालम्भं विधत्ते यदि क इह मखे वैदिकः संशयीत ? ॥ हिंसात्वाभावमेवाध्वरपशुनिहतेराह रामानुजार्य स्तत्पक्षस्थोऽपि यो न प्रसजति यजने कस्तदन्यो गुरुद्विट् ॥ ३६६ ॥ इदं चावधेयम् — हिंसान्तरेष्विव मखाश्रितहिंसनेऽपि जैनेतरो यदि जनो भजते जुगुप्साम् ॥ अपि Acharya Shri Kailassagarsuri Gyanmandir [ तुण्डीरमण्डल तेः परस्मैपदविधानात् शतृप्रत्ययः । ननु तर्हि स्खैः आत्मीयैः अन्नैः भगवतः आराधनं नैवेद्यार्पणरूपमपि न कल्पेत न क्रियेत । तस्याप्यत्पत्वादिना भगवदाराधनानर्हत्वादिति भावः । प्रयत्नेन अनिन्द्यप्रयासेन शुचि याजनाध्यापनादिव्यापारलब्धत्वात् पवित्रं किमपि यत्किचित्खल्पमपि द्रव्यं लब्ध्वा संपाद्य तेनेति शेषः । भगवतः ईश्वरस्य कैङ्कर्ये पूजननैवेद्यार्पणादिरूपं कृतं चेत् तदेव अध्वरमयं यज्ञप्रचुरं यज्ञरूपमि - त्यर्थः । किमिति न भवति ? अपि तु भवत्येवेति । एवं च यदि कलौ यज्ञकरणमयुक्तं स्यात्, तर्हि भगवत्पूजनादिकमपि त्वन्मते त्याज्यमेव स्यात् । उभयोरपि यज्ञत्वाविशेषाद्द्रव्यानर्हत्वस्य चापि समत्वादिति भावः ॥ ३६५ ॥ किंच हिंसादिति । 'हिंसाकृत् प्राणिप्राणवियोगानुकूलव्यापारकर्ता जन: प्रत्यवेयात् दोषीभवेत्' इवि यः वेदः "न हिंस्यात् सर्वाभूतानि" इत्यादिरूपः कथयति, एष एव वेदः यागे यज्ञे पशो: आलम्भं वधं “ अग्नीषोमीयं पशुमालभेत " इत्यादिनेति भावः । विधत्ते कथयति यदि, तर्हि इह मखे यज्ञविषये कः वेदमधीते वेद वा वैदिकः वेदवेत्ता पुरुष इत्यर्थः । संशयीत संदेही स्यात् ? अपि तु न कोऽपि संशयीतेति । उभयत्र ग्रामाण्ये संशयाभावादिति भावः । अपि च रामानुजार्यो रामानुजाचार्यस्तु, अध्वरे यागे या पशोर्निहतिर्वधः तस्याः हिंसात्वस्य अभावमेवाह । तथा च मनुरपि - " यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ।” इत्याह । तस्मात् तस्य रामानुजार्यस्य पक्षे मते तिष्ठतीति तन्मतस्थः, तन्मताभिमानीत्यर्थः । सोऽपि, अपिशब्दोऽस्य विधेः सार्वत्रिकत्वबोधनार्थः । सन् यो जनः यजने यज्ञकर्मणि न प्रसजति नोद्युक्तो भवति, 'षञ्ज सङ्गे' इत्यस्मात् प्रपूर्वकाद्धातोर्लट् । “दंश सञ्ज- खञ्जाम्-" इति नलोपः । तस्मात्पुरुषादन्यः कः पुरुषः गुरुं द्वेष्टीति तथोक्तः गुरोर्द्वष्टेत्यर्थः । भवति ? अपि तु स एव तथाविध इत्यर्थः ॥ ३६६ ॥ किंच हिंसान्तरेष्विति । यदि जैनात् महावीरजिन स्थापितमतानुयायिनः श्रावकादेः इतरः भिन्नः जनः हिंसान्तरेष्विव यज्ञकर्मबहिर्भूत केवलखशरीरपोषणार्थे कृतेषु पशुवधेष्विव, मखे यज्ञे आश्रितं श्रुति स्मृति विहितत्वादवश्यप्राप्तं तच्च तद्धिं For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy