SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० विश्वगुणादर्शचम्पूः [वन निजोरसि पयोधरश्चिरमचञ्चलां विद्युतम् पयोधरमरस्यसावपि बिभर्ति नित्यं निजे ॥ २०६ ॥ अथ वनवर्णनम् १६. इति विमानं दक्षिणतः समानयन् सानन्दम्विलोकय सखे विपिनानाममीषां परमं रामणीयकम् ॥ ८२ ॥ पुरः पुरो धनं वनं वने वने महागिरि महागिरौ महागिरौ विराजते गुहागृहम् ॥ गुहागृहे गुहागृहे विहारतत्परो हरि हेरौ हरौ निरङ्कुशः कृतेभसाध्वसो ध्वनिः ॥ २०७ ॥ खल्पपर्वता इत्यर्थः । “ पादाः प्रत्यन्तपर्वताः " इत्यमरः । पक्षे चरणाश्च विद्यन्ते अस्येति तथाभूते, फणिक्षमाभृति शेषशैले सर्पराजे च, अदः इदं वक्ष्यमाणं, अन्यत् वस्तुतो गुप्तचरणस्य सर्पराजस्य प्रकाशबहुपादवत्त्वादितरत् , परमं महत् अद्भुतं आ. श्चर्य, प्रकामं यथेच्छ अवलोक्यते दृश्यते । अस्माभिरिति शेषः । तत्किमित्यपेक्षायामाह-पयोधरो मेघः निजोरसि खकीयवक्षःस्थले, चिरं अचञ्चलां स्थिरां विद्युतं बिभर्ति । मेघसदृशः श्यामवर्णों भगवान् वक्षसि नित्यं लक्ष्मी बिभ्रदत्र निवसतीति वास्तवोऽर्थः । असावपि विद्युदपि निजे उरसि पयोधर मेघं वस्तुतः स्तनयुग्मं नित्यं बिभर्ति । इदमेवाश्चर्यमिति भावः । श्लेषमूलकविरोधाभासालंकारः । वास्तवार्थेन च तत्परिहारः ॥ २०६ ॥ - अथ विचित्रवनवर्णनप्रस्तावार्थमाह-इतीत्यादि। विलोकयेति । हे सखे अमीषां पुरोदृश्यमानानां विपिनानामरण्यानां "अटव्यरण्यं विपिनं " इत्यमरः । परमं रामणीयकं रमणीयत्वं मनोहरत्वमिति यावत् । मनोज्ञादित्वादुम् । अवलोकय पश्य ॥ ८२ ॥ रामणीयकमेवाह-पुर इति । पुरः पुरः अग्रे अग्रे घनं निबिडं वनं विराजते शोभते । इदमेव क्रियापदं सर्वत्रान्वेतव्यम् । वने वने प्रतिवनं महागिरिः । वीप्सायां द्वित्वम् । एवमेव सर्वत्रोह्यम् । गुहा गृहमिवेत्युपमितसमासः । विहारे क्रीडायां तत्परः आसक्तः हरिः सिंहः । “विष्णु-सिंहांशु-वाजिषु । शुकाहि-कपि-भेकेषु हरि। कपिले त्रिषु । " इत्यमरः । निरङ्कुशः प्रतिबन्धरहितः, कृतमुत्पादितं इभानां गजानां साध्वसं भयं येन, तादृशः ध्वनिः गर्जनम् ॥ २०७ ॥ १ पयोधरे', 'पयोधरम्'. - - - - For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy