SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १५] पदार्थचन्द्रिकाटीकासहिता । सर्वतः पर्वतमालोक्य सश्लाधम् - सर्वोत्तुङ्गः श्रितशुभगुहः साध्वभिख्यातशीलो भावद्वेशोपेचयजनकः सानुजस्फूर्तिकोऽयम् ॥ ऐनं नूनं क्षितिभृतमियं जानती जानकीशम् की श्रेणी कलय शरणीकुर्वती वर्वरीति ॥ २०५ ॥ पुनः सानन्दम् - प्रकाशबहुपादवत्यपि फणिक्षमाभृत्यदः प्रकाममवलोक्यते परममन्यदत्यद्भुतम् ॥ ११९ न्धो नेत्ररहितश्च श्वाघया प्रशंसया युक्तः, वीक्षते अवलोकयति । अहह इत्याचार्ये । पतुः पादरहितोऽपि सहसा त्वरया अद्रिशृङ्गं पर्वतशिखरं अध्यारोहति । तथा वन्ध्याः स्त्रियस्तु शिशुभरणतः बालधारणतः पोषणतो वा, सान्द्रालस्याः अतिशयालस्ययुक्ताः सत्यः, मन्दमन्दन्ति अतिमन्दा भवन्ति । " सर्वप्रातिपदिकेभ्यः किब्वा वक्तव्यः इति मन्दमन्दशब्दात् क्विपि रूपम् । मूकादयस्त्वीप्सितफलं संप्राप्यैवं कुर्वन्तीत्यर्थः । एतच्चरित्राणि श्रीवेङ्कटेश्वरमाहात्म्यादिपुराणतोऽवगन्तव्यानि ॥ २०४॥ सर्वत इत्यादि सुलभम् — " सर्वोत्तुङ्ग इति । अयं शेषाचलः सर्वेभ्यः शैलेभ्यः पक्षे जनेभ्यः उत्तुङ्गः उन्नतः श्रेष्ठश्व, श्रिताः स्थिताः शुभा गुहाः कन्दराः, पक्षे श्रितः आश्रितः शुभगुहः एतन्नामा कश्चिनिषादश्च येन सः, साधुषु मध्ये अभिख्यातं प्रसिद्धं शीलं सद्वृत्तं यस्य तथाभूतः, भाखन्तः प्रकाशमानाः ये वंशाः वेणवस्तेषां उपचयजनकः वृद्धयुत्पादकः, पक्षे भाखतः सूर्यस्य वंशोपचयजनकः कुलविस्तारकरः, सानुभ्यः पर्वतशिखरेभ्यो जाता प्रथमोत्पन्ना स्फूर्तिः प्रकाशो यस्य, पक्षे अनुजानां लक्ष्मण भरतादीनां स्फूर्त्या कान्त्या सहितः सानुजस्फूर्तिकः । अस्तीति शेषः । अत एव एनं क्षितिभृतं पर्वतं राजानं च नूनं निश्चयेन, जानकीशं सीतापतिं श्रीरामचद्रमेव जानती अवगच्छन्ती इयं कीशानां वानराणां श्रेणी पङ्क्तिः, शरणीकुर्वती रक्षकं गृहं वा कुर्वती सती, वर्वरीति भृशं पुनः पुनर्वा वृणोति वेष्टयतीति यावत् । ' वृञ् आवरणे ' इत्यस्माद्यङ्लुकि रूपम् | कलय अवलोकय । अत्र 'सर्वोत्तुङ्ग' इत्यादिश्लिष्ट सहेतुकविशेषणैः शैले श्रीरामसंभावनात् श्लेषविशिष्टोत्प्रेक्षालंकारः ॥ २०५ ॥ प्रकाशेति । प्रकाशाः दृश्याः बहवः पादाः प्रत्यन्तपर्वताः, समन्तात् स्थिताः १ 'सर्वोत्तङ्गश्रितशुभगुहं साध्वभिख्यातशीतं भास्वद्वंशोपचयजनकं सानुजस्फूर्तिकायम् ॥ एवं नूनं क्षितिभृतममुं', 'साध्वभिख्यातशीतो'. २ ' वंशोच्चयन' ३ ' एवं '. ४ ' भृत्यतः '. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy