________________
Shri Mahavir Jain Aradhana Kendra
९६
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पूः
भूमेर्मूर्तीरिव वसुमतीर्भुञ्जते भाग्यवन्तः क्षोणीपाला इव युवजनाः काममान्ध्रीः पुरन्ध्रीः ॥ १५६ ॥
[ आन्ध्रदेश
शृणु तावत्-
को वा कल्पर्तरोर्गुणः सुमनसां यत्स्वाश्रितानामसौ सारांशान् हरतेः प्रसह्य मधुपान् धत्ते महामोदैतः ॥ कर्णे त्वर्जुनकीर्तिहानिपरता कालाम्बुदे गर्जनम् नीरन्ध्रं पुनरान्ध्रदेशनृपतिष्वास्तेऽनघं स्पर्शनम् ॥ १५७ ॥ समन्तादवलोक्य—
[वयंस्यात्र गोदावरीतीरे केषांचिदेषामवनीदिविषदामति शिवपूजालोलुपतां पश्य ।। ५७ ॥
एवमग्रेऽपि । हृद्याः मनोज्ञाः तुङ्गौ स्तनौ गिरी इव तौ जुषन्त इति तथोक्ताः । नाभिः वापीव तया मनोज्ञाः वसुः कान्तिः वसु धनं च तद्वतीः, “वसुनी देवभेदाभि-भायोऋ - बक- राजसु । क्लीबं वृद्धयौषधे श्याले रै रत्ने मधुरे त्रिषु" इति मेदिनी । अत एव भूमेः मूर्तीरिव स्थिताः आन्ध्रीः आन्ध्रदेशजाः पुरन्ध्रीः कुटुम्बिनीः स्त्रियः, क्षोणीपाला इव स्थित्वा भाग्यवन्तः युवजनाः अत्रत्याः तरुणाः, कामं भुञ्जते अनुभवन्ति । अत्रत्यानां स्त्रीपुंसानां सौन्दर्य लोकोत्तरमिति भावः । उपमालंकारः ॥ १५६ ॥
1
क इति । असौ कल्पवृक्षः स्वमात्मानं आश्रितानां सुमनसां विदुषां देवानां पुष्पाणां च । सारान् श्रेष्ठान् अंशान् धनरूपान् मकरन्दरूपांश्च भागान् प्रसह्य बलात्कृत्य, हरतः मधुपान् मद्यपायिनः भृङ्गांव, महामोदतः अतिसुगन्धेन च अतिसन्तोषेणेति वा उपलक्षितः धत्ते । शिरसीति शेषः । संमानयतीत्यर्थः । इति यत्, असौ शिरसि मधुपधारणरूपः कल्पतरोः को वा गुणः न कोऽपि । किंतु दोष एवेत्यर्थः । स्वसेवकैः विद्वद्धनापहरणस्य किरातराजप्रायतासूचकत्वादिति भावः । कर्णे सूर्यपुत्रे तु दातरि अर्जुनायाः शुभ्रायाः, अर्जुनस्य पार्थस्य च कीर्तेर्हानौ परता आसक्तिरस्ति । अयं दोषस्तस्मिन्नास्तीत्यर्थः । एवमग्रेऽपि कालाम्बुदे वार्षिकमेघे गर्जनं स्वकत्थनं स्तनितं च अस्ति । आन्ध्रदेशनृपतिषु पुनः नीरन्ध्रं अविच्छिन्नं स्पर्शनं दानं, अनघं उक्तदोषरहितं सत् आस्ते जागर्ति । व्यतिरेकालंकारः “ उपमानाद्यदन्यस्य व्यतिरेकः कः स एव सः । " इति तलक्षणात् ॥ १५७ ॥
वयस्येति । वयस्य भो मित्र, अत्रास्मिन् गोदावरीतीरे । केषांचिदेषां दृश्यमानानां अवनीदिविषदां ब्राह्मणानां, अति अत्यन्तं शिवपूजायां लोलुपतां आसक्तिं पश्य ॥५७॥
१ 'कल्पतरौ '. २ ' दधतः '. ३ ' मोहत : ' ४' समं,' 'स्फुटं,' 'घनं' ५ इत आरभ्य १५९ लोकपर्यन्तो ग्रन्थस्तावन्नोपलभ्यते आदर्शपुस्तके । अत्रैव मुद्रिते एकस्मिन् पुस्तके उपलब्धः स तथैवास्माभिः संगृहीतः ।
For Private And Personal Use Only