SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १२] पदार्थचन्द्रिकाटीकासहिता । इत्यन्यतो विमानं गमयन्नग्रतो दृष्ट्वा क इमे बहवः समवेता मानुषा मार्गानशेषानप्यशून्ययन्ति ॥ ५० ॥ निपुणं निरूप्य सश्लाघम्अङ्गान् वङ्गान् कलिङ्गानथ मगध-कुरून् कोसलान् केकयान् वा काश्मीरान् कुन्तलान्वा यवनजनपदान् किंच पाञ्चालदेशान् । नेपालान् केरलान्वा कतिचन कृतिनः पाण्ड्य-तुण्डीरचोलान् कर्नाटान् गौड-लाटान् परगतिघटनालम्पटाः पर्यटॅन्ति ॥१४६।। कृ०-अरे किमेतान्निन्दनीयानभिनन्दसि ! ॥ ५१ ।। नानाजातिभवा इमे कलिबलादेकीभवन्तो नरा वैराग्याभिनयं चिराद्विदधतो वर्णाश्रमत्यागिनः ॥ निर्धूतानघवैदिकप्रणमना निष्किंचना वञ्चना दक्षा दिक्षु विदिक्षु कुक्षिभृतये भिक्षाटनं कुर्वते ॥ १४७ ॥ इतीति । अन्यतोऽन्यत्र स्थले विमानं गमयन्नग्रतः पुरोभागे दृष्ट्वा आह क इति । इमे बहवः समवेता एकत्र मिलिताः मानुषाः अशेषान् सर्वानपि मार्गान् अशून्ययन्ति इतस्ततः परिभ्रमणेन सर्वदा परिपूरयन्ति, ते के? ॥ ५० ॥ निपुणमवलोक्य निश्चित्याह-अङ्गानिति । एते कतिचन कतिपयाः कृतिनः पुण्यवन्तो ( जनाः) परस्य स्वर्गादिलोकस्य गतेः प्राप्तेः घटनायां संपादने लम्पटाः आसक्ताः अङ्गादीन् देशान् पर्यटन्ति परिभ्रमन्ति । तत्र तत्र देशे यानि तीर्थानि याश्च देवताः सन्ति तेषां स्नानदर्शनादिकर्मभिरात्मानं पवित्रीकर्तुमिति भावः॥१४६॥ अरे इति । अरे विश्वावसो, एतान् वस्तुतो निन्दनीयान्निन्दायोग्यान किं कुतो हेतोः अभिनन्दसि ? ॥ ५१॥ कुतो वा नाभिनन्दनीया इत्याह-नानेति । इमे नानाजातिभवाः अनेकवर्णसंभवा अपि कलेबलात् माहात्म्यात् एकीभवन्तः एकत्र संमिलन्तः, तर्हि युक्तमेवैतत् , एकीभूय किमपि महत्कार्यं कुर्वन्तीति चेत्तत्राह-वर्णाश्रमत्यागिनः वर्णाश्रमधर्मत्यागशीलाः, एतेन खवधर्म त्यक्त्वैवैकीभूतास्ते धर्महानि विना नान्यत्किमपि कर्तुं शक्ताः इति सूचितम् । एतादृशा नराः चिरात् बहुकालपर्यन्तं वैराग्यस्य इन्द्रियदमनादिरूपस्य अभिनयं प्रकटीकरणं विदधतः, अभ्यस्तत्वानुमभावः। कुर्वन्तः, किंच निर्धूतं सर्वथा त्यक्तं अनघानां निष्पापानां वैदिकानां वेदज्ञानां प्रणमनं अभिवादनं यैस्तथाभूताः वेदज्ञान् जनान् तिरस्कुर्वन्त इति यावत् । निष्किचना नास्ति किंवन धनादिकं येषां ते, दरिद्रा इत्यर्थः । अत एव वञ्चनायां, परप्रतारणायां दक्षा १ 'अशेषान्' इत्येतत् कचित्पुस्तके न दृश्यते. २ 'देशान्'. ३ 'पर्यटन्ते'. ४ 'अ. भिनन्दयसि'. ५ निर्धूताखिल'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy