SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९० www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ---- विश्वगुणादर्शचम्पूः तथाहि मायाचुञ्चतया भयावहगतिः प्रत्यर्थिपृथ्वीभुजाम् माहाराष्ट्रभटच्छटा रणपटुनपर्यटाट्येत चेत् ॥ देव-ब्राह्मणवर्गनिग्रहकृतो देशांस्तुरुपका इमे निष्प्रत्यूहमनोरथा वितनुयुर्निर्देवै - भूमीसुरान् ॥ १४४ ॥ ततश्च देवक्षोणी सुरहितकृते दारितम्लेच्छपङ्क्तेर्मयां सह्या कथमपि महाराष्ट्रयूथस्य चेष्टा ॥ व्याधिव्यूहप्रतिहतिकृतां व्यक्तमुग्रौषधानां कायारोग्यप्रणयिहृदयैः काटवं मर्षणीयम् ॥ १४५ ॥ [ महाराष्ट्र - " कथं महनीयमित्येतदेवोपपादयति-मायाचुश्श्रुतयेति । रणे पटुः कुशला महाराष्ट्र भवा माहाराष्ट्रास्तेषां भटानां योधानां "भटा योधाश्च योद्धारः" इत्यमरः । छटा समूहः, मायया वित्ता प्रसिद्धा मायाचुच्चुः तस्याः भावः मायाचुञ्चुता तया " तेन वित्तञ्चुप-चणपौ” इति चुचुप्प्रत्ययः । युद्धकापट्यज्ञानप्रसिद्धत्वेनेत्यर्थः । प्रत्यर्थिनां शत्रुभूतानां क्षितिभुजां राज्ञां " दस्यु- शात्रव - शत्रवः । अभिघाति-पराराति-प्रत्यर्थि- परिपन्थिनः" इत्यमरः । भयावहा भयोत्पादका गतिः संचारो यस्यास्तथाभूता सती, नो पर्यटाट्येत भृशं पुनः पुनर्वा परिभ्रमणं न कुर्यात् चेत्, परिपूर्वकस्य 'अट गतौ' इत्यस्य यङन्तस्य विधिलिङि रूपम् । तदा देवाश्च ब्राह्मणाश्च तेषां वर्ग: समुदायः तस्य निग्रहं भ्रष्टकरण-धनग्रहणादिच्छलरूपं कुर्वन्तीति तथाभूताः इमे तुरुष्काः तुरुष्कदेशीया नृपाः, निष्प्रत्यूहः निर्विघ्नः " विनोऽन्तरायः प्रत्यूह: " इत्यमरः । मनोरथः परधनग्रहणादिरूपो येषां तथाभूताः सन्तः, सर्वान् देशान् निर्देवभूमीसुरान् देव-ब्राह्मणरहितान् वितनुयुः कुर्युरेव ॥ १४४ ॥ तत इति । ततश्च पूर्वोक्तत्रासनिवारण हेतोरेव - 3 देवेति । देव क्षोणीसुरहितकृते देव-ब्राह्मणहितार्थं दारिता विनाशिता म्लेच्छानां पङ्क्तिः समुदायो येन तथोक्तस्य महाराष्ट्रयूथस्य महाराष्ट्रनृपसैन्यस्य मयां पृथिव्यां कथमपि सोढुमशक्यत्वे सत्यपि संकटेनैव, चेष्टा कृतिः सह्या सहनीया । लोकैरिति परिशेषात् । यथा व्याधिव्यूहस्य रोगसमूहस्य प्रतिहतं नाशं कुर्वन्तीति तथाभूतानां उग्राणि खराणि च तानि औषधानि च तेषां व्यक्तं प्रसिद्धं काटवं कटुत्वं कायस्य देहस्य आरोग्ये प्रणयि अनुरागयुक्तं हृदयमन्तःकरणं येषां तैर्जनैः कथमपि मर्षणीयम् सहनीयम् दृष्टान्तालंकारः ॥ १४५ ॥ , १ 'मायाच तया' ' चत्वं मोहजनकत्वनैपुण्यम्' इति तट्टिप्पणी. चेत्. ३ ' निर्वेद'. ४ ' प्रतिकृति '. For Private And Personal Use Only २ 'पर्यटत्येव
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy