________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १२] पदार्थचन्द्रिकाटीकासहिता । आपस्तम्बः स किल कलयेत्सम्यगौपासनं यः
कष्टं शिष्टक्षतिकृति कलौ कार्यमृच्छन्ति विद्याः ॥ १३८ ॥ वि०-किमरे भूसुरेष्वेवं दोषमुद्घोषयसि ? ॥ ४६॥ अत्रापि सन्ति बहवः कलितामिहोत्राः
शास्त्रार्थबोधकुशलाः किल शान्तिमन्तः ॥ अन्तर्मुखाः सततमात्मविदो महान्तो
निर्धूतबाह्यविषया निगमाध्वनिष्ठाः ॥ १३९ ॥ अन्यच्चशुचीभूताः स्नानैः श्रुतहितपुराणाश्च नियमा__ दपूतानां स्पर्शानवहितहृदोऽमी विजहतः ॥ णलादेशः। सः वेदव्यासः भवति । एतदग्रेऽपि योज्यम् । यश्च एकमेव न तु अनेकान्, श्लोकं परिपठति, सः वयं जीवो बृहस्पतिरेव । "बृहस्पतिः सुराचार्यों गी. पतिर्धिषणो गुरुः । जीव आङ्गिरसः” इत्यमरः । यस्तु सम्यक् औपासनं सायंप्रातहोमरूपं कर्म कलयेत् कुर्यात् , सः किलेति गर्दायाम् । आपस्तम्बः ऋषिर्भवति । एवं शिष्टानां सभ्यानां क्षति नाशं करोतीति तत्कृत् तस्मिन् कलौ युगे, विद्याः वेद-शास्त्रा. दिज्ञानानि, काश्य कृशत्वं ऋच्छन्ति प्राप्नुवन्ति । कष्टमिति खेदे ॥ १३८ ॥
किमिति । अरे कृशानो ! भूसुरेषु ब्राह्मणेष्वपि एवं दोषमुद्घोषयसि आरोपयसि ? ॥ ४६॥
वस्तुतस्तु नैवायं देशो दूषणार्ह इत्याह-अत्रेति । अत्र महाराष्ट्रदेशेऽपि, बहवो बुधाः जनाः न तु द्वित्राः । शास्त्रस्य अर्थबोधे अर्थज्ञाने कुशलाः निपुणाः मार्मिका इति यावत् । अत एव निगमाध्वनि वेदविहितकर्मानुष्ठानरूपमार्ग निष्टा आसक्तिर्येषां तथाभूताः, अत एव च कलितं स्वीकृतं अग्निहोत्रं त्रेताग्निसाध्यः कर्मविशेषः यैस्ते ता. दृशाः । केचित्तु निर्धूताः निरस्ताः बाह्यविषयाः शब्दादिविषया यैस्ते तथाभूताश्च, अतो हेतोरेव अन्तः हृदयपुण्डरीके आत्मोपलब्धिस्थले एव मुखं सांमुख्यं येषां ते, सततमात्मानुध्यानासक्ता इति यावत् । सततं निरन्तरं आत्मानं विदन्ति खानुभूत्या साक्षात् कुर्वन्तीति तथाभूताः । किलेल्यवधारणे, हेतौ वा । अव्ययानामनेकार्थत्वात् । शान्तिमन्तो बाह्येन्द्रियनिग्रहतत्परा इत्यर्थः । अत एव महान्तः महत्त्वलक्षणसंपन्नाः । महत्त्वलक्षणमुक्तं श्रीमद्भागवते-"महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये" इति। एवं च कर्म-ज्ञाननिष्ठा उभयविधा अपि जनाः अत्र देशे सन्ति॥१३९॥
शुचीभूता इति । किंच स्नानैः शुचीभूताः पवित्रीकृताः। नैतावदेव, किंतु नियमात् श्रुतानि आकार्णतानि हितानि हितकराणि पुराणानि श्रीमद्भागवतादीनि भक्ति
१ 'भासुरेषु' इत्यधिकं क्वचिदृश्यते. २ 'शुचीभूत्वा'. ३ 'श्रुतिहितपुराणोक्त'.
For Private And Personal Use Only