SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [महाराष्ट्रविप्रो भूत्वाप्यहह गणनानैपुणैर्वञ्चयित्वा ___ वर्णस्तेयं रचयति जनैः खामिनां पोषकाणाम् ! ॥ १३६ ॥ अहो बत कलिमहिन्ना सदसद्विवेकवैधुर्यमखिलजनानाम् ! ॥ ४४ ॥ ये मुष्णन्ति निशि प्रविश्य भवनं ये वा बलात्कानेनं नैते खामिधनं हरन्ति ननु तान्निन्दन्ति चोरा इति ॥ सद्यो हन्त हरन्ति पोषकधनं संख्यां विपर्यस्य ये __ कष्टं तानपि वञ्चकानिह पुरस्कुर्वन्ति सर्वे जनाः ॥ १३७ ॥ 'अयं खल्वनुपमो देशः' इति त्वदुक्तं युक्तमेव । यदत्र खल्पेनापि यत्नेन महती प्रतिष्ठा सिध्यति ॥ ४५ ॥ वेदव्यासः स हि दश यो वेद वेदाक्षराणि श्लोकं त्वेकं परिपठति यः स खयं जीव एव ॥ कारैः, निजं खीयं वपुः शरीरमपि विक्रीणीते । एतत्तु आस्तां तावत् । परंतु अहह इति खेदे। गणनानैपुणैः आय-व्ययद्रव्यसंख्याकौशल्येः वञ्चयित्वा, अयं जनः पोष. काणां मासिकभृतिदानेन पोषणं कुर्वतां खामिनामपि किमुतान्येषां, वर्णस्तेयं द्रव्यचौर्य रचयति करोति । खामिवश्चनस्य नरकपातहेतुत्वादेतदतीव निन्द्यमित्यर्थः ॥ १३६ ॥ अहो इति । अहो इत्याश्चर्ये । बतेति खेदे । कलिमहिम्ना कलिमाहात्म्येन अखिलानां सर्वेषामपि जनानां सदसतोः उत्तमाधमयोः विवेकस्य विचारस्य वैधुर्य राहित्यम् ॥ ४४ ॥ कथं तावद्विवेकवैधुर्यमिति चेत्तदेव विवृणोति-य इति । ये निशि रात्रौ परस्य भवनं गृहं प्रविश्य, ये वा काननमरण्यं प्रविश्य, दिवापि बलात् मुष्णन्ति द्रव्यादिकं चोरयन्ति, एते तु खामिधनं निजपोषकद्रव्यं नैव हरन्ति, परंतु तान् गृहं प्रविश्य चौर्यकर्मकर्तृन् प्रति 'चोराः' इति उक्त्वा निन्दन्ति । ये च संख्या विपर्यस्य आयव्ययगणनावैपरीयं कृत्वा, पोषकधनं सद्यः तत्कालं हरन्ति, हन्तेति खेदे । तानपि वञ्चका खामिप्रतारकान् , इह देशे सर्वेऽपि जनाः पुरस्कुर्वन्ति मानयन्ति । कष्टमेतदतीवान्याय्यमित्यर्थः ॥ १३७ ॥ अयमिति । किंच 'अयं महाराष्ट्राभिख्यो देशः अनुपमः खलु' इति, पूर्वमिति शेषः । त्वया उक्तं प्रतिपादितं, युक्तमेव योग्यमेव । कुतः । यद्यस्मात् अत्र देशे स्वल्पेनापि स्तोकेनापि यत्नेन महती प्रतिष्ठा सिध्यति ॥ ४५ ॥ कथमित्युपपादयति-वेदव्यास इति । इह महाराष्ट्रे देशे, यः विप्रः दश वेद. स्य अक्षराण्येव केवलं, न तु संपूर्णमन्त्रमपि। वेद जानाति "विदो लटो वा" इति लटो १ 'पुनः', 'निजस्वामिनाम्'. २ 'कानने'. ३ 'इव'. ४ 'यशेन'. ५ 'नव दश'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy