________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100 विशेषा० इति चेत् । उच्यते- नन्यध्ययनागमेत्रान्तरे तस्याः प्रतिपादितत्वादिह स्वस्थानत्वमिति । न केवलमसावेवाभिधास्यते, किन्तु मसङ्गता सर्वेन्द्रियाणां विषयममाणं चाहं भणिष्यामि ॥ इति गाथार्थः ॥ ३३५ ॥ कया पुनर्गाथया नियुक्तिकृताऽसौ भण्यते ?, इत्याह
पुढं सुणेइ सई रूवं पुण पासइ अपुढे तु । गंधं रसं च फासं च बद्धपुढे वियागरे ॥ ३३६ ॥
श्रोत्रेन्द्रिय कर्तृ, शब्दं कर्मतापनं शृणोति । कथंभूतम् ?, इत्याह- स्पृश्यत इति स्पृष्टस्तं स्पृष्टं तनौ रेणुवदालिङ्गितमात्रमेवेत्यर्थः। इदमुक्तं भवति- स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते, यतो घाणेन्द्रियविषयभूतद्रव्येभ्यस्तानि सूक्ष्माणि, बहूनि, भावुकानि च, पटुतरं च श्रोत्रेन्द्रियं विषयपरिच्छेदे घ्राणेन्द्रियादिगणादिति । श्रोत्रेन्द्रियस्य चेह कर्तृत्वं शब्दश्रवणान्यथानुपपत्तेर्लभ्यते । एवं घाणेन्द्रियादिष्वपि वाच्यम् । तानि पुनः कथं गन्धादिकं गृह्णन्ति ?, इत्याह- गन्ध्यत इति गन्धस्तमुपलभते प्राणेन्द्रियम् , रस्यत इति रसस्त च गृह्णाति रसनेन्द्रियम् , स्पृश्यत इति स्पर्शस्तं च जानाति स्पर्शनेन्द्रियम् । कथम्भूतं गन्धादिकम् ?, इत्याह-बद्धस्पृष्टम् । तत्र स्पृष्टमिति पूर्ववदेव, बद्धं तु गाढतरमाश्लिष्टमात्मप्रदेशैस्तोयवदात्मीकृतमित्यर्थः । ततश्च गन्धादिद्रव्यसमूहं प्रथमं स्पृष्टमालिङ्गितम्, ततश्च स्पर्शनानन्तरं बदमात्ममदेशैर्गाढतरमागृहीतमेवोपलभते घ्राणेन्द्रियादिकमिति । एवं व्यागृणीयात् मरूपयेत् प्रज्ञापकः, यतो घाणेन्द्रियादिविषयभूतानि गन्धादिद्रव्याणि शब्दद्रव्यापेक्षया स्तोकानि, बादराणि, अभावुकानि च, विषयपरिच्छेदे श्रोत्रापेक्षयाऽपनि च घ्राणादीनि अतो बद्धस्पृष्टमेव गन्धादिद्रव्यसमूहं गृह्णन्ति, न पुनः स्पृष्टमात्रमिति भावः । ननु यदि स्पर्शानन्तरं बद्धं गृहाति, ताहि 'पुटबद्धं' इति पाठो युक्तः, इति चेत् । उच्यते-विचित्रत्वात् सूत्रगतेरित्थं निर्देशः, अर्थतस्तु यथा त्वयोक्तं तथैव द्रष्टव्यम् । अपर, स्त्वाह- यद् बद्धं तत् स्पृष्टं भवत्येव, विशेषबन्धे सामान्यवन्धस्याऽन्तर्भावात् , ततः किं स्पृष्टग्रहणेन ? इति । तदयुक्तम् , सकलश्रोतः साधारणत्वाच्छास्त्रारम्भस्य, पश्चितज्ञाऽनुग्रहार्थमोपत्तिगम्यार्थाभिधानेऽप्यदोषादिति ॥ ..
चक्षुरिन्द्रियं त्वमाप्तमेव विषयं गृह्णाति, इत्याह- 'रूवं पुण पासई अपुढे विति' रूपं कर्मतापन्नं चक्षुरस्पृष्टममाप्तमेव पश्यति पुनःशब्दस्य विशेषणार्थत्वादस्पृष्टमपि योग्यदेशस्थमेव पश्यति, नाऽयोग्यदेशस्थं सौधर्मादि, कट-कुट्यादिव्यवहितं वा घटादि । इति नियुक्तिगाथार्थः ॥ ३३६ ।।
। स्पृष्टं गणोति शब्द रूपं पुनः पश्यत्यस्पृष्टं तु । गन्धं रसं च स्पर्श च बद्धस्पृष्टं व्यागृणीयात् ॥ ३३ ॥ x(यादि) अथैतव्याख्यानाय भाष्यम्पुढे रेणुं व तणुम्मि बद्धमप्पीकयं पएसेहिं । छिक्काई चिय गिण्हइ सद्ददव्वाई जं ताई ॥ ३३७ ।। बहु-सुहुम-भावुगाइं जं पडुयरं च सोत्तविण्णाणं । गंधाईदब्वाइं विवरीयाइं जओ ताई ॥ ३३८ ॥
फरिसाणंतरमत्तप्पएसमीसीकयाई घेप्पंति । पडुयरविण्णाणाई जं च न घाणाइकरणाई ॥ ३३९ ॥ - 'स्पृष्टं' इत्यस्य व्याख्यानं 'पुढे रेणुं व तणुम्मि त्ति' यथा रेणोस्तनौ संबन्ध इत्येतावन्मात्रेण यद् वस्तु संबद्धं तदिह स्पृष्टभुः च्यत इति भावः । 'बद्धमित्यादि' यदात्मीकृतमात्मना गाढतरमागृहीतम्, आत्मप्रदेशस्तनुलग्नतोयवद् मिश्रीभूतं तद् बद्धमुच्यते । इत्यर्थः । तत्र 'छिकाई चिय ति' स्पृष्टान्येव शब्दद्रव्याणि गृह्णाति श्रोत्रम् , यतस्तानि बहूनि, सूक्ष्माणि, भावुकानि च वासकानि चेत्यर्थः । पटुतरं च श्रोतृविज्ञानम् । गन्धादिद्रव्याणि तु विपरीतानि स्तोक-बादरा-ऽभावुकानि यतः, अतस्तानि स्पर्शानन्तरमात्मपदे शैर्मिश्रीकृतानि स्पृष्ट-बद्धानि गृह्यन्ते घ्राणादिभिः पटुतरविज्ञानानि च न भवन्ति यतो घ्राणादिकरणानि ॥ इति गाथात्रयार्थः । ३३७॥ ३३८ ।। ३३९ ॥
अथ 'रूवं पुण पासइ अपुढे तु' इत्यत्रोपपत्तिमाह
अप्पत्तकारि नयणं मणो य नयणस्स विसयपरिमाणं । आयंगुलेण लक्खं अइरित्तं जोयणाणं तु ॥ ३४०॥ प्रागुक्तयुक्त्या अप्राप्तकारि- अमाप्तस्यैव वस्तुनः परिच्छेदकारि यतो नयनं, मनश्चः ततोऽस्पृष्टमेव रूपं पश्यति नयनेन्द्रियम् । नन यद्यमाप्त रूपमेतत् पश्यति, तर्हि लोकान्तादर्वाग् यदस्ति तत् सर्व पश्यतु, अप्राप्तत्वाविशेषात् , इत्याशय, यदिन्द्रियाणां विषयपरिमाण भणनीयत्वेन प्राक् प्रतिज्ञातं, तत्र चक्षुषस्तावत् तदाह- 'नयणस्सेत्यादि' नयनेन्द्रियस्याऽऽगमे आत्माङ्गुलेन सातिरेकं योजनलक्षमु स्कृष्टतोऽपि विषयपरिमाणमभिहितम् , तेनाप्राप्तकारित्वाविशेषेऽपि परतो न पश्यतीति भावः । इह च 'आत्माङ्गुलेन' इति वदता कोऽभिप्रायः । उच्यते- अङ्गुलमिह तावत् त्रिविधं भवति- आत्माङ्गुलम् , उच्छ्रयाजुलं, प्रमाणाङ्गुलं चेति । तत्राऽऽद्यम्
. स्पृष्टं रेणुरिव तनी बद्धमात्मीकृतं प्रदेशः । स्पृष्टान्येव गृह्णाति शब्दद्रव्याणि यत् तानि ॥ ३३॥ बहु-सूक्ष्म-भावुकानि यत् पटुतरं च श्रोत्रविज्ञानम् । गन्धादिद्रव्याणि विपरीतानि यतस्तानि ॥ ३३८॥ स्पशानन्तरमात्मप्रदेशमिश्रीकृतानि गृह्यन्ते । पटुतरविज्ञानानि यच्च न घ्राणादिकरणानि ॥ ३३९॥ २ गाथा ३३६ । ३ अप्राप्तकारि नयनं मनश्च नयनस्य विषयपरिमाणम् । आत्माङ्गुलेन लक्षमतिरिक्तं योजनानां तु ॥ ३४०॥
For Private and Personal Use Only