________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
99
विशेषा०
व्याख्यातार्थैव, नवरं सम्यग्दृष्टिर्योग्यमयोग्यं च साधनधर्म जानाति, ज्ञात्वा च स्थाने व्यापारयति । तथा च सम्यगार ant भूत्वा समीहितफलभाग् भवति । उक्तं च
"काले सिक्ख नाणं जिणभणिअं परमभत्तिरायणे । दंसणपभावगाणि अ सिक्ख सत्थाई कालम्मि ॥ १ ॥ काले य भत्तपाणं गवेस सयलदोसपरिसुद्धं । आयरियाईणट्ठा पवयणमायासु उवउत्तो ॥ २ ॥
एवं समायरंतो काले कालं विसुद्धपरिणामो । असवन्तजोगकारी सलाहणिज्जो य भुवणम्मि ॥ ३ ॥ ससुरा - सुरपणमि अजिण-गणहरभणियकिरिय विहिकुसलो । आराहिऊण सम्मत्त नाण चरणाई परमाई ॥ ४ ॥ सत्तट्टभवग्गहणमंतैरकालम्मि केवलन्नाणं । उप्पाडिऊण गच्छइ विहुयमलो सासयं मोक्खं ॥ ५ ॥ तत्थ य जर- जम्मण-मरण-रोग-तण्हा-छुहा-भय-विमुक्तो । साइ अपज्जवसाणं कालमणतं सुहं लहइ" || ६ | इत्येवमादि ॥ इति गाथार्थः ॥ ३३२ ॥
तदेवं चालना - प्रत्यवस्थानादिभिर्व्याख्याता अवग्रहादयः । अथ तेषामेव कालनिरूपणार्थमाह नियुक्तिकार:उग्गहो एवं समयं ईहा वाया मुहुत्तमंतं तु । कालमसंखं संखं च धारणा होइ नायव्वा ॥
३३३ ॥
अवग्रह इति व्याख्यानाव नैश्चयिकोऽर्थावग्रहो द्रष्टव्यः । स किम् १, इत्याह- सर्वजघन्यः कालविशेषः समयः, तमेकं स भवति, न परतः । ईहा पायौ मानिर्णीतस्वरूपौ 'मुहुत्तमंतं त्विति' अन्तःशब्दो मध्यवचनः, ततश्च जघन्यतः, उत्कृष्टतश्च मुहू तर्भिनं मुहूर्त ज्ञातव्यौ भवतः - अन्तर्मुहूर्तमित्यर्थः । तुञ्चकारार्थः । चकारश्चानुक्तसमुच्चये । ततश्च व्यञ्जनावग्रह - व्यावहारिकार्थावः
१ काले शिक्षते ज्ञानं जिनभणितं परमभक्तिरागेण । दर्शनप्रभावकाणि च शिक्षते शाखाणि काले ॥ १ ॥ काले च भक्तपानं गवेषते सकलदोषपरिशुद्धम् । आचार्यादीनामर्थाय प्रवचनमातृषूपयुक्तः ॥ २ ॥
एवं समाचरन् काले काले विशुद्धपरिणामः । आस्त्रवान्तयोगकारी श्लाघनीयश्च भुवने ॥ ३ ॥ सकलसुरासुरप्रणतजिन-गणधरभणितक्रियाविधिकुशलः । आराध्य सम्यक्त्व-ज्ञान चरणानि परमाणि ॥ ४ ॥ सप्ताऽष्टभवग्रहणाभ्यन्तरकाले केवलज्ञानम् । उत्पाद्य गच्छति विधुतमलः शाश्वतं मोक्षम् ॥ ५ ॥
तत्र च जरा-जन्म-मरण-रोग-तृष्णा क्षुद्-भय-विमुक्तः । साचपर्यवसानं कालमनन्तं सुखं कभते ॥ ६ ॥
२. क.ग. 'णं' । ३ घ 'तरे का' । ४क. ग. 'लं नाणं' ।
Acharya Shri Kailassagarsuri Gyanmandir
५ अवग्रह एक समयमीहा पायौ मुहूर्तान्तस्तु । कालमसंख्यं संख्यं च धारणा भवति शातव्या ॥ ३३३ ॥
च प्रत्येकमन्तर्मुहूर्त भवत इति द्रष्टव्यम् । क्वचित् ' मुहुत्तमद्धं तु' इति पाठः, तत्राऽपि मुहूर्तार्धशब्देनान्तर्मुहूर्तमेव मन्तव्यम् । तु joats तथैव । कलनं कालः, न विद्यते संख्या पक्ष-मास ऋतु अयन-संवत्सरादिका यस्यासावसंख्यः पल्योपमादिलक्षणस्तं का मसंख्यम्, तथा संख्यायत इति संख्यः - पक्ष- मास ऋतु-अयनादिप्रमित इत्यर्थः, तं संख्यम्, चशब्दादन्तर्मुहूर्त च धारणा प्रागभिहित रूपा भवति ज्ञातव्या । इदमुक्तं भवति - अविच्युति- स्मृति-वासनाभेदाद् धारणा त्रिविधा । तत्राऽविच्युतिरूपा, स्मृतिरूपा च प्रत्ये मन्तर्मुहूर्त भवति । या तु तदर्थज्ञानावरणक्षयोपशमरूपा स्मृतिबीजरूपा वासनाख्या धारणा, सा संख्येयवर्षायुषां सच्चानां सं कालम्, असंख्येयवर्षायुषां तु पल्योपमादिजीविनामसंख्येयं कालं भवति ॥ इति नियुक्तिगाथार्थः ॥ ३३३ ॥
reti भाष्यकारो व्याख्यानयति
अत्थोग्गहो जहन्नो समयं सेसोग्गहादओ वीसुं । अंतोमुहुत्तमेगं तु वासनाधारणं मोतुं ॥ ३३४ ॥
अवग्रहइत्यस्य व्याख्यानमर्थावग्रह इति, अयमपि निश्चय व्यवहारभेदतो द्विधा, ततो व्यवहारार्थावग्रहव्यवच्छेदार्थमा 'जहन्न इति' अतिस्तोककालत्वेन जघन्यो नैश्वयिकोऽर्थावग्रहो नेतर इत्यर्थः, अयमेकसमयं भवति । शेषास्त्वेकां वासनारूपां धार मुक्त्वा येऽवग्रहादयो व्यञ्जनावग्रह- व्यावहारिकार्थावग्रहे- हा पाया ऽविच्युति-स्मृतिरूपा मतिभेदास्ते सर्वेऽपि विष्वक् पृथगेकमेवाऽ मुहूर्ते भवन्ति । वासनाधारणायास्तु निर्युक्तिगाथोक्तमेव कालमानमवगन्तव्यम्, इत्यभिप्रायः ॥ इति गाथार्थः ॥ ३३४ ॥
अथ 'पुढं सुणे सर्व' इत्यादिनिर्युक्तिगाथाया भाष्यकारः संबन्धमुपदर्शयन् परां गाथामाह
"सोचाईणं पत्ताइविसयया पुव्वमत्थओ भणिया । इह कंठा सहाणे भण्णइ, विसयप्पमाणं च ॥ ३३५ श्रोत्रादीनां प्राप्ता-माप्तविषयता पूर्वमर्थतोऽर्थव्याख्यानद्वारेणाऽऽयाता मया विस्तरेणाऽभिहिता । इह तु स्वस्थाने स्वस्थानत्वाद् क्तिकारेण कण्ठाद् गाथासूत्रेण स्वयमेवासौ भण्यते । एतदुक्तं भवति - 'उग्गहो ईह अवाओ य' इत्यादिनिर्युक्तिगाथाया व्या कुर्वता मया नयण मणोवज्जिदियभेयाओ वंजणोग्गहो चउहा' इत्यादिना भाष्येण व्यञ्जनावग्रहव्याख्यामस्तावे श्रोत्राद प्राप्ता - प्राप्तविषयता प्रोक्ता । इह तु कण्ठाद् निर्युक्तिगाथायाः स्वस्थानत्वाद् नियुक्तिकारस्तां वक्ति । नन्वत्र कथं तस्याः स्वस्थानत्वम
१ घ. ज. 'स्मृतेय' । २ घ. ज. 'जभूता वा' ३ अर्थावग्रहो जघन्यः समयं शेषाऽवग्रहादयो विष्वक् । अन्तर्मुहूर्तमेकं तु वासनाधारण मुक्त्वा ॥ ३३४॥ ४. गाथा ३३६ । ५ ओोत्रादीनां प्रासादिविषयता पूर्वमर्थतो भणिता । इह कण्ठात् स्वस्थाने भण्यते, विषयप्रमाणं च ॥ ३३५॥ ६ गाथा १७८ ॥ ७ गाथा २०
For Private and Personal Use Only