SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे दृष्ट्वा स्पृष्ट्वा नरो देवि सर्वपापैः प्रमुच्यते । शैवं नारायणं शैलं यत्र देशे व्यवस्थितम् ॥ तच्छैवं विष्णुमत्तीर्थ शालग्रामसमुद्भवम् । पूजनीयं प्रयत्नेन तत्र सनिहितावुभौ ॥ येऽर्चयन्ति महाभत्त्या शिवनाभिं नरोत्तमाः। ते यान्ति मन्दिरं शम्भोः सिद्धचारणसेवितम् ।। शिवनाभिं च ये भक्त्या विधिवत्पूजयन्ति वै । गन्धपुष्पोपहारैश्च ते यान्ति शिवसनिधिम् ॥ द्विनाभिः पद्मरूपा चेत् भवेद्धरिहरात्मिका । नाभौ लिङ्गेन युक्ता वा श्वेतामा वै खुरान्विता ॥ शिवनाभीति विख्याता भुक्तिमुक्तिप्रदायिका । यवमात्रं तु गर्च स्यायवार्धं लिङ्गमुच्यते ॥ शिवनाभिरिति ख्यातः त्रिषु लोकेषु दुर्लभः । वासुदेवमयं क्षेत्रं लिङ्गं शिवमयं स्मृतम् ।। तस्माद्धरिहरक्षेत्रे पूजयेच्छङ्कराच्युतौ । सा चेच्छिलाशतैः शस्ता चतुर्वर्गफलप्रदा ॥ साक्षान्महेश्वरेणात्र संयुक्तं पूजयेद्धरिम् । पाञ्चजन्याङ्किता या तु पझेन गदया युता ॥ तत्र श्रीः प्रत्यहं तिष्ठेत् सदा सम्पदमादिशेत् । जया च परमा मुद्रा चतुर्वर्गफलप्रदा ॥ एषा चैकेन चिह्नन लाञ्छिता वै प्रशस्यते । सकृदभ्यर्चितो येन देवो योगेश्वरो हरिः॥ दर्शनात्स्पर्शनाच्चैव शालग्रामस्य नित्यशः । निर्दहिष्यति तत्सर्व ज्वालयाग्निरिवेन्धनम् ॥ (?) न तेषामपराधोऽस्ति शालग्रामशिलार्चने । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy