SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णुपूजाया उत्कर्षः । च । तत्र नित्यत्वबोधकवचनानि यथा, एकाहमपि न स्थेयं विना केशवपूजनात् । एकाहवर्जनाद्राजन् पुण्यं याति पुरा कृतम् ॥ तथा कूर्मपुराणे, यो मोहादथवाऽऽलस्यादकृत्वा माधवार्चनम् । भुङ्क्ते स याति नरकं शूकरेष्विह जायते ॥ अनर्चयित्वा गोविन्दं यैर्भुक्तं धर्मवर्जितैः । शुनो विष्ठासमं चानं नीरं च सुरया समम् ॥ स्कान्दे, केशवार्चा गृहे यस्य न तिष्ठति महीपते । तस्यानं नैव भोक्तव्यमभक्षणसमं स्मृतम् ।। इति । अत्र कर्मणि ल्युट् । अभक्ष्यसममित्यर्थः । काम्यत्ववोधकानि यथा, भौमान्मनोरथान् स्वर्ग स्वर्गिवन्धं तथा पदम् । प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ स्वर्गिपदमिन्द्रादिपदम् । नारसिंहे, यस्तु पूजयते नित्यं नरसिंहं नरेश्वर । स स्वर्गमोक्षभागी स्यानात्र कार्या विचारणा || तस्मादेकमना भूत्वा यावज्जीवं प्रतिज्ञया । पूजनान्नरसिंहस्य समानोत्यभिवांछितम् ॥ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । सम्पूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ॥ मुच्यन्ते चाशुभदुःखैर्जन्मकोटिशतोद्भवैः । तेपि भूयोऽभिजायन्ते श्वेतद्वीपनिवासिनः ॥ इति । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy