SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे स स्वर्गराज्यमोक्षाणां क्षिप्रं भवति भाजनम् ॥ मार्कण्डेये, स्तुता सम्पूजिता पुष्पैर्गन्धधुपादिभिस्तथा । ददाति वित्तं पुत्रांश्च मतिं धर्मे तथा शुभाम् ॥ इति । ब्रह्मविष्णुमहेशानां यावज्जीवं प्रतिज्ञया पूजा विहिता कूर्मपुराणे, तस्माद्ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः । एकस्यैव स्मृतास्तिस्रस्तन्वः कार्यवशात् प्रभोः ॥ तस्मात्सर्वप्रयत्नेन त्रयः पूज्याः प्रयत्नतः । यदीच्छेदचलं स्थानं यत्तन्मोक्षाख्यमुत्तमम् ॥ वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः । पूजयेद्भावयुक्तेन यावज्जीवं प्रतिज्ञया । इति । असाधारण्येनैतानि फलानि न तु फलान्तरदातृत्वव्यावृत्तिः । वाक्यान्तरेषु तेषां फलान्तरदातृत्वश्रुतेः । तत्र विष्णुपूजोत्कृष्टत्युक्तम्---- कूर्मपुराणे, न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेदरिम् ॥ इति । गरुडपुराणे, विष्णुर्ब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकरः। तस्मात्पूज्यतमं नान्यमहं मन्ये जनार्दनात् ॥ भागवते, यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच यथेन्द्रियाणां तथैव सर्वाहणमच्युतेज्या । प्राणोपहारो भोजनादिः । तत्र विष्णुपूजा नित्या काम्या For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy