SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ५॥ १३० - फलेरितजादेश्च पः ॥ ३४ ॥ पलितम् ॥ ३४ ॥ कुत्रादिभ्यः संज्ञायां वुन् ॥३५॥ करकः । कटकः। नरकम् । कोरकः ॥ ३५॥ चीकयतेराद्यन्तविपर्ययश्च ॥ ३६ ॥ कीचकः । ३६ ॥ पचिमच्योरिचोपधायाः ।। ३७ ॥ पेचकः । मेचकः।३७॥ जनेररष्ठ च ।। ३८ ॥ जठरम् । ३८ ।। वचिमनिभ्यां चिच्च ॥ ३९ ॥ वठरः । मठरः । ३९ ॥ ऊर्जिट्टणातेरलचौ ॥४०॥ ऊर्दरः। ४० ॥ ( ३४ ) फलति निष्पन्न पक्वमिव भवतीति पलितम् । केशश्चैत्यं वा। फस्य पः ॥ ( ३५ ) करोतीति करकः । करका । वृष्टिपाषाणो वा । करको दाडिमः । कमण्डलुर्वा । कटति वर्षत्यावृणोति वा स कटकः । बाहुभूषमाम् । शिखरो वा । नमाति नयतीति नरकम् । पापभागो वा। सरति गच्छतीति सरकम् । गमनं वा । अति भूषिता भवतीत्यलकम् । शीतादिकं वा। अलति वारयति येभ्यस्तेऽलकाः । कुटिलाः केशा वा । कुरति शब्दयतीति कोरकः । कलिका ( कली ) इति प्रसिद्धा ॥ (३६) चीकयते सहतेऽसौ कीचकः । वंशभेदो वा ।। ( ३० ) पचतीति पेचकः । उलकपक्षी वा । मचते शब्दयतीति मेंचकः । कृष्णवर्णो मयूरपक्षचिन्हं वा ॥ (३८) जायतेऽस्मादिति जठरम् । उदरम् । कठिनं वा ॥. ( ३६ ) अन्त्यस्य ठः । वतीति वठरः । मूर्ख वा । मन्यतेऽसौ मटरः। मुनिभेदो मतो वा । तस्यापत्यं माठरः । माठयः ॥ (४० ) ऊर्क पराक्रमं रसं वा दृमातीति, उर्दरः । शूरो दुष्टो वा। स्वरभेदार्थ प्रत्ययद्वयम् ॥ । - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy