SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा०४॥ १२६ देशेऽह च ॥ २१५ ॥ रहः ॥ २१५ ॥ अञ्च्यजियुजिभृजिभ्यः कुश्च ॥२१६॥ अङ्कः। अङ्गः । योगः । भर्गः ॥ २१६ ॥ भरञ्जिभ्यां कित् ॥२१७॥ भुवः। रजः ॥ २१७॥ वर्णित् ॥ २१८॥ वासः॥ २१८ ॥ चन्देरादेश्च छः ॥ २१९॥ छन्दः ॥ ॥ २१९ ॥ पचिवचिभ्यां सुट् च ॥ २२० ॥ पक्षः। वक्षः ॥ २२० ॥ ( २१५) चाद्रमेरसन । रमन्तेस्मिन्निति रहः । एकान्तो विश्वासदेशो वा। रह एकान्ते भवं रहस्यम् । वेदान्तं वा । देशादन्यत्र रहोऽव्ययं शब्दान्तरं वास्ति । रहो मैथुनसमयस्तत्र भवं रहस्यं मैथुनम् । दिगादित्वायत् ॥ ( २१६ ) अऽचति गच्छति येन तत् अङ्कः । सङ्ख्याद्योतकं चिन्हं वा। अनक्ति व्यक्तीकरोतीति अङ्गः । पक्षी वा । अवयवेऽङ्गशब्दोऽदन्तः । युज्यते स योगः । समाधिः । कालो वा । भर्जीत पक्कं भवतीति भर्गः । प्रजापतिः । तेजो वा। बाहुलकात-उच्यते यत्र तत् ओकः । स्थानं वा । न्यवादित्वात् कुत्वम् ॥ (२१० ) भवन्ति यस्मिन्निति भुवः । अन्तरिक्षं वा । रजति तत् रजः । लोकः । सूक्षमलिः । स्त्रीपुष्पम् । गुणों वा । आकारान्तश्च ॥ (२१८ ) वस्त आच्छादयति शरीरादिकमनेन तत वासो वस्त्रं वा। असुनो णिवावादृद्धिः ॥ ( २१६ ) चन्दति हृष्यति येन दीप्यते वा तत् छन्दः । गायच्यादि । कपटमिच्छाऽभिप्रायो वशो वा । छन्दानुवृत्तिः । इत्यादि प्रयोगदर्शनादकारान्तोऽप्ययं शब्द इति मन्तव्यम् ॥ ( २२० ) पचतीति पक्षः । पूर्वोत्तरपक्षौ वा । वक्ति येन तद्वतः। हृदयं वा॥ - - १७ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy