SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकेोषः ॥ गण्डेश्च ॥ ७८ ॥ गण्डूषः । गण्डूषा ॥ ७८ ॥ अररुः ॥ ७९ ॥ श्रररुः ॥ ७९ ॥ १०३ कुटः किश्च ॥ ८० ॥ कुटरुः ॥ ८० शकादिभ्योऽन् ॥ ८१ ॥ शकटः । कङ्कटः । देवटः । करटः ॥ ८१ ॥ (०८) गण्डति वदनावयवं दिशतीति गण्डूषः । जलादिना पूर्ण मुखम् । कुल्ला इति प्रसिद्धम् ॥ (०६ ) ऋच्छति प्राप्नोति येन तत् । अररुः । आयुधं वा ॥ For Private And Personal Use Only (८०) कुटतीति कुटरुः । वस्त्रगृहं वा ॥ (८१) शक्नोतीति शकटः । शकटं यानविशेष ऋषिर्वी । यस्यापत्यं शाकटायनः । वृणोतीति वरटः । कीटभेदो वरटा हंसयोषिदा । कङ्कते गच्छतीति कङ्कटः । कवची वा । सरति प्रसरतीति सरटः । कृकलासो या । गिरगट इति प्रसिद्धः । देवते व्यवहरतोति देवटः । शिल्पी वा । कम्पते येन स कपटः । माया वा । धातोर्नलोपः । कर्कमर्ककपीः सौत्रा धातवः । कर्कतीति कर्कटः । जलजन्तुभेदो वा । मर्कतीति मर्कटः । वानरो वा । स्त्रियां गौरादित्वान् ङीष् । मर्कटी । कर्पतीति कर्पटः । छिन्नं पुराणं वस्त्रं वा । पर्पति गच्छतीति पर्पटः । ऊपरभूमिर्वा । कखति हसतीति कक्वटम् । कठिनं वा । कुगागमः । चपति सान्त्वयतीति येन स चपेटः । चर्पटो वा । प्रसृताङ्गलिर्हस्तो वा । एकत्र प्रत्ययादेरेत्वमपरच रेफागमश्च । मयते प्राप्नाति यं स मयटः । प्रासादो वा । किरति विक्षिपतीति करटः । काको वा । एवमन्येऽपिशब्दा अटन प्रत्ययान्ता यथाप्रयोगं साध्याः ॥
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy