SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ उणादिकोषः ॥ पतः स्थ च ॥ १२॥ पन्थाः ॥ १२॥ खजेराकः ॥ १३ ॥ खजाकः ॥ १३ ॥ वलाकादयश्च ॥ १४॥ वलाका शलाका। पताका ॥१४॥ पिनाकादयश्च ॥ १५॥ पिनाकः । तडाकः ॥ १५॥ (१२) पतन्ति गच्छन्ति यत्र स पन्या मार्गः । पन्थानौ । पूर्वव. दात्वम् । पथै गतावित्यस्माद्धातोः पचाद्यचि कृते पथः । पथौ । पथाः । इत्यदन्तोऽपि दृश्यते ॥ (१३ ) खजति मथनातीति खजाकः पक्षिः । खजाका दर्विवा । बहुलवचनात्मन्यन्ते स्तूयन्ते तानि मन्दाकानि स्रोतांसि वा । तान्यस्याः सन्तीति मन्दाकिनी । नदोभेदः । ( १४ ) वलते संवृणोत्यसौ वलाका । वकपंक्तिः कामिनी वलाको वकपक्षी वा । मन्यते जानाति सा मनाका । हस्तिनी वा । पुनातीति पवाका । यां शलन्ति गच्छन्तोति शलाका । अज्जनयष्टिका वा । पटति गच्छतीति पटाकः । पक्षी वा । पत्यते ज्ञायतेऽसौ पताका ध्वजा वा ॥ (१५) पाति रक्षति पिनाकः । त्रिशूलं धातुवा । ताडयत्या. हन्तीति तडाका प्रभा वा । बहुलवचनात्-आगप्रत्यये सति तड़ागः । इत्यपि सिद्धं भवति । भन्दतेऽसौ भदाकः । कल्याणम् । श्याति प्राप्नोतीति श्यामाकः ब्रोड्भेिदो वा । समा इति प्रसिद्धः । मुगागमो निपातनम् । न भाति प्रकाशत इति नभाकम् । मेघयुतमाकाशं वा । यं पिनष्टि सम्यकचर्णयति स पिण्याकः । तिलकल्को वा । धातोः षकारस्य धत्वं युगागमश्च । वर्तते येन स वार्ताको वार्ताको वा । वनभण्टा इति प्रसिद्धा। धातादिः । गुवति पुरीषमुत्सृजतोति गुवाकः । पूगीफलं वा । कुटादि. त्वाद् गुणाभावः ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy