SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ३॥ सरतेरयुः ॥ २२ ॥ सरयुः ॥ २२ ॥ पानीविषिभ्यः पः ॥२३॥ पापम् । नीपः । वेष्पः॥ २३॥ च्युवः किञ्च ॥ २४ ॥ च्युपः ॥ २४ ॥ स्तुवो दीर्घश्च ॥ २५ ॥ स्तूपः ॥ २५॥ सुशृभ्यां निच ॥ २६ ॥ सूपः । शूर्पम् ॥ २६ ॥ कुयुभ्यां च ॥ २७ ॥ कूपः। यूपः ॥ २७ ॥ खष्पशिल्पशष्पवाष्परूपपर्पतल्पाः ॥ २८॥ ( २२ ) यः सति यत्र जलानि वा सरन्ति स सरयुः । नदी वा । अयूप्रत्यय इति पाठान्तरम् । सरयूः ॥ - (२३) पान्ति रक्षन्त्यात्मानमस्मादिति पापमधी वा । तद्योगात्पापः पुरुषः । नयतीति नेपः । पुरोहितो वा । वेष्टि व्याप्नोति वेष्पः । पेयमुदकंवा ॥ ( २४ ) च्यवते प्राप्नोति वदति वा येन स च्युपः । मुखं वा ॥ ( २५ ) स्तौतीति स्तूपः । भूमिसमुच्छायो यज्ञवेदिवी ॥ ( २६ ) किद् दीर्घश्च । सुनोति सूयते पच्यते वा स सूपः पक्वं द्विदलान्नं वा । शृणाति हिनस्तोति पं मानभेदोऽनशोधक पाचं वा ॥ (२०) कित दीर्घश्च । कौति शब्दयतीति कूपः । यौति मि प्रयतीति यूपः । यज्ञशालास्तम्भो वा ॥ (२८) खष्पादयः पप्रत्ययान्ता निपाताः । खनतोति खष्पः । क्रोधो बलात्कारो वा । नकारस्य षत्वम् । यत् शीलात समादधाति तत शिल्पम् कौशलं वा । हस्वादेशः । शष्यते हन्यते तच्छष्पम् । बालतणं कान्तिक्षयो वा । षत्वम् । बाधते दुःखयोति बाष्पम् । नेत्रजलमष्मा वा । धकारस्य सत्वम् । रौति शब्दयतीति रूपम् । आकृतिः स्वभावः सौन्दर्य वा, दीर्घादेशः । पिपीति पर्पम् । गृहं बालतणं वा । तलति प्रतिष्ठां करोतीति तल्पम् । शय्या स्त्रियो वा । बालहुकात-चमति भक्षयतीति चम्पा । नगरी वा। पाति रक्षतीति पम्पा । नदी वा । हस्वत्वं मुडागमश्च ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy