SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ तृतीयापादारम्भः ॥ -:*:छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकदरसंयहराः ॥ १॥ इणसिजिदीकुष्यविभ्यो नक् ॥ २॥इनः।सिनः । जिनः। दीनः । उष्णः । ऊनः ॥ २॥ (१) छित्वरादय एकादश शब्दाः वरच प्रत्ययान्ता निपात्यन्ते । छिनतीति छित्वरः धूर्तः । शचश्छेदनद्रव्यं वा । छदतेऽपवारयतीति छत्वरः । गृहं लताच्छादितं स्थानं वा । अत्रोभयत्र धातुदकारस्य तकारः। डुधा धारणे पा पाने, मा माने । एषामीत्वमन्त्यस्य । दधातोति धीवरः । नौवाहको वा । पिबति दुग्धा दिकमिति पोवरः स्यूलो वा । माति मीनाति हिनस्ति वा स मोवरः । हिंसको वा । चिनोति तणादिना चीयते वा स चीवरः । चीवरं वस्त्रं मुनिस्थानं वा । धातोदी चोदेशः । तीरयति कर्मसमाप्तिं करोतीति तीवरो जातिविशेषो वा । रेफलोपो गुणाभावश्च । नयतीति नीवरः । गुणनिषेधः । परिबाट वा। गाहते विलोडयतीति गबरम् । गहनं वा। हुस्वादेशः । कति वर्षत्यावृणोति वा तत् कटरम् । भोज्यं व्यञ्जनं वा । संयच्छतीति संयद्वरः । नृपो वा । मकारस्य दकारः । बाहुलकात-उपजुहोतीत्युपवरः । रथो वा । वरच प्रत्ययस्य पित्वात् स्त्रियां छित्वरी । इत्यादि सर्वत्र ङीष् ॥ (२) एतीति इनः । ईश्वरो राजा प्रभुः सूर्यो वा । इनेन स्वामिना सह वर्तत इति सेना । सिनोति बध्नातीति सिनः । काणो वा । जयतोति जिनः । अतिबद्धो जयशीलो नास्तिकभेदो वा । दीयते क्षीणो भवतीति दीनः । दुःखी वा । ओषति दहतीत्युष्णाम् । ईषत्तप्तं वा । वाच्यलिङ्गः । अति रक्षादिकं करोतीत्यूनः । असंपूर्ण वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy