SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० १॥ मिहिरः । मुहिरः । मुचिरः । रुचिरम् । रुधिरम् । बधिरः । शुषिरम् ॥ ५१ ॥ अशेनित् ॥ ५२ ॥ अशिरः ॥ ५२ ॥ अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः॥ ५३ ॥ सेचयति पृथिवों मेघजलेन स मिहिरः । सूर्यो वा । मुह्यति यस्मै वा यो मुह्यति स मुहिरः । काम्य: पदार्थोऽसभ्यो जनो वा । यो मुञ्चति स्वपदार्थमन्येभ्यो ददाति स मुचिरो दानशीलो वा । यद्रोचते प्रीतिकरं भवति तमुचिरं शोभनम् । रुचिरं वस्त्रं रुचिरः पुचो रुचिरा कन्या वा । रुध्यते चर्मणा यतदधिरं शोणितम् । बध्यते शब्दश्रवणानिरुध्यते स बधिरो श्रोत्रविकलः । किलच प्रत्यस्य कित्वादनिदितामिति नलापः । शुष्यन्ति पदार्था येन तच्छुषिरं छिद्रमाकाश वा ! ( ५२ ) अश्नाति यः पदार्थान सोऽशिरोऽग्निः । धृष्टतयाऽश्नाति वाऽशीरो दुर्जनः ॥ (५३ ) अजिरादयः सप्त किरच प्रत्ययान्ता निपात्यन्ते । अन्ति गच्छन्ति यच तजिरमङ्गनम् । गृहाग्रभागः । आंगन इति प्रसिद्धम् । शति दिनाल्पत्वाच्छीघ्र गच्छति तििशरमूर्हिमं शीतलं वस्तु वा । अर्थात विमुचति पुरुषार्थीमति शिथिलः पुरुषः । शिथिला कन्या । शिथिलानि तृणानि मदनीत्यर्थः । धातोरुपधाया इत्वं रेफस्य लोपः प्रत्ययस्थस्य रेफस्य लत्वं च निपात्यते । गमनागमनिवृत्या तिष्ठतोति स्थिरं निश्चलम् । धातोराकारलाप: । स्फायते प्रवर्द्धते स स्फिरः । प्रभावो वा । आयभागस्य लोपो निपातनम् । गमनेऽसमर्थत्वातिष्ठतीति स्थविरः । वदो भिक्षुको वा । धातोवुक हस्वत्वञ्च । खदति हिनस्तीति खदिरः । वृक्षभेदो वा ॥ बाहुलकात-यः शेते स शिविरः शेरते यस्मिन् तत् शिविरं स्थानं वा । शोङ् धातोर्वक इस्वत्वञ्च ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy