SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ १०६--किशरादिभ्यः ष्ठन् । अ० ॥ ४ । ४ । ५३ ॥ प्रथमासमानाधिकरणकिशरादिप्रातिपदिकेभ्यः पण्यमित्यर्थ ष्ठन्प्रत्ययो भवति । गन्धविशेषवाचकाः किशरादयः । किशराः पण्यमस्य, किशरिकः । किशरिकी : किशर । नरद । नलद । सुमङ्गल । तगर । गुग्गुल । उशीर । हरिद्रा। हरिद्रायणी ॥ इति किशरादयः॥ १०७-छत्रादिभ्यो णः ॥ ४ । ४ । ६२॥ प्रथमासमानाधिकरणछत्रादिप्रातिपदिकेभ्यः शीलमित्यर्थे णः प्रत्ययो भवति । इव शब्दस्यात्र लोपो द्रष्टव्यः । छत्रभिव शीलमस्य स छात्रः शिष्यः । छत्रवद्गुरुरक्षकः : छत्र । बुभुक्षा । शिक्षा । पुरोरु । स्था ( १ )। चुरा । उपस्थान । ऋषि । कर्मन् । विश्वधा । तपस् । सत्य । अनृत । शिविका । इति छन्त्रादयः ॥ १०८-प्रतिजनादिभ्यः खञ् ॥ अ०॥४।४।९९ ॥ सप्तमीसमर्थप्रतिननादिप्रातिपादिकेभ्यः साधुरित्यस्मिन्नर्थे खञ् प्रत्ययो भवति । प्रतिजने साधुः, प्रातिजनीनः । जने जने साधुरित्यर्थ : :__प्रतिजन । इदंयुग । संयुग । समयुग । परयुग । परकुल । परस्यकुल । अमुष्यकुल । सर्वनन । विश्वजन । पञ्चजन । महाजन । इति प्रतिजनादयः ॥ १०९-कथादिभ्यष्ठक् ॥ अ० ॥ ४।४।१०२ ॥ सप्तमीसमर्थकथादिप्रातिपदिकेभ्यः साधुरित्यर्थे ठक् प्रत्ययो भवति । कथायां साधुः काथिकः : कथा । विकथा । वितण्डा । कुष्टचित् । जनवाद।जनेवाद! वृत्ति । सद्गृह । गुण । गण । आयुर्वेद । इति कथादयः ॥ ११०-गुडादिभ्यष्ठा ॥ अ०॥४।४।१०३॥ सप्तमीसमर्थगुडादिप्रातिपदिकेभ्यः साधुरित्यर्थ ठञ् प्रत्ययो भवति । गुडे साधुः, गौडिक इक्षुः :-- गुड । कुल्माष । सक्तु। अपूप। मांसौदन । इक्षु । वेणु । संग्राम । संघात । प्रवास । निवास । उपवास । इति गुडादयः ॥ ( १ ) अत्र स्थग्रहणेन सोपसर्गस्य ग्रहणमिष्यते । आस्था शीलमस्य स, आस्थः । सांस्थः । आवस्थः ॥ - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy