SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ गणपाठः॥ १०१-वेतनादिभ्यो जीवति ॥ अ०॥ ४ । ४ । १२॥ तृतीयासमर्थवेतनादिप्रातिपदिकेभ्यो जीवतीत्यर्थे ठक् प्रत्ययो भवति । वेतनेन जी. वति, वैतनिकः वेतन । वाह । अर्द्धवाह । धनुर्दण्ड (१) । जाल । वेस । उपवेस । प्रेषण उपस्ति । सुख । शय्या । शक्ति । उपनिषत् । उपवेष । स्रक् । पाद । उपस्थान । इति वेतनादयः ॥ १०२-हरत्युत्सङ्गादिभ्यः ॥ अ० ॥ ४ । ४ । १५॥ तृतीयासमत्सङ्गादिप्रातिपदिकेभ्यो हरतीत्यर्थे ठक् प्रत्ययो भवति । उत्सङ्गेन ह. | रति, औत्सङ्गिकः :उत्सङ्ग । उडुप । उत्पत । पिटक । उडप । पिटाक । इत्युत्सङ्गादयः ॥ १०३-भस्त्रादिभ्यः ष्ठन् । अ० ॥ ४ । ४ । १६ ॥ भस्त्रादितृतीयासमर्थप्रातिपादिकेभ्यो हरतीत्यर्थे ष्ठन् प्रत्ययो भवति । भस्त्रया हरति, भस्त्रिकः , भस्त्रिकी :-- भस्त्रा । भरट ।भरण । भारण । शीर्षभार । शीर्षेभार । अंसभार । अंसेभार । इति भस्त्रादयः ॥ १०४-निवृत्तेऽक्षयूतादिभ्यः ॥ अ.॥४।४।१९॥ अक्षयूतादितृतीयासमर्थप्रातिपदिकेभ्यो निवृत्तेऽर्थे ठक् प्रत्ययो भवति । अक्षयूतेन निवृत्तम्, प्राक्षयूतिकं वैरम् :-- ___ अक्षयूत। जानुप्रहृत । जाप्रहृत । पादस्वेदन । कण्टकमर्दन । गतागत । यातोपयात । अनुगत । इत्यक्षद्यूतादयः ॥ १०५--अण महिष्यादिभ्यः॥ अ० ॥ ४ । ४।४८॥ पष्ठीसमर्थमहिष्यादिप्रातिपदिकेभ्यो धर्म्यमित्यर्थेऽण प्रत्ययो भवति । महिष्या धर्म्य माहिषम् :-- महिषी । प्रजावती । प्रलेपिका । विलेपिका । अनुलेपिका । पुरोहित । मणिपाली अनुचारक । होतृ । यजमान । इति महिष्यादयः ॥ ( १ ) अत्र संघातविगृहीतयोर्ग्रहणं भवति । धनुर्दण्डेन जीवति धानुर्दण्डिकः । धनुषा जीवति धानुष्कः । दाण्डिकः ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy