SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः॥ - स्कन्ध । देवदत्तशठ । रज्जुकण्ठ । रज्जुभार । कठशाड । कशाय । तलककार । पुरु. पासक । अश्वपेय । स्कम्भ । इति शौनकादयः ॥ ९२-कुलालादिभ्यो वुञ् ॥ अ० ॥ ४ । ३ । १३८ । तृतीयासमर्थकुलालादिप्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति । कृतमित्येतस्मिन्नर्थ संज्ञायां गम्यमानायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् :-- कुलाल । वरुड । चण्डाल । निषाद । कार । सेना । सिरिध्र । सेन्द्रिय । देवराज । परिषत् । बधू । रुरु । ध्रुव । रुद्र । अनड्डह् । ब्रह्मन् । कुम्भकार । श्वपाक । इति कुलालादयः ॥ ९३-बिल्वादिभ्योऽण ॥ भ०॥ ४ । ३ । ११६ ॥ षष्ठीसमर्थविल्वादिप्रातिपदिकेभ्यो विकारावयवयोरर्थयोरण प्रत्ययो भवति विल्वस्य | विकारोऽवयवो वा बैल्वः : बिल्व । ब्रीहि । काण्ड । मुद्ग । मसूर । गोधूम । इक्षु । वेणु । गवेधुका (१)। कर्पासी । पाटली । कर्कन्धू । कुटीर ॥ इति बिल्वादयः ॥ ९४-पलाशादिभ्यो वा ॥ अ० ॥ ४ । ३ । १४१॥ पलाशादिप्रातिपदिकेभ्यो विकारावयवयोरञ् प्रत्ययो भवति । पलाशस्य विकारः पालाशम् । खादिरम् : पलाश । खदिर । शिशपा । स्यन्दन । करीर । शिरीष । यवास । विकत । इति | पलाशादयः ॥ ९५-नित्यं वद्धशरादिभ्यः॥५०॥४।३ । ११४॥ वृद्धेभ्यःशरादिभ्यश्च प्रातिपदिकेभ्यो भक्ष्याच्छादनयोर्विकारावयवयोर्भापायां विषये नित्यं मयट् प्रत्ययो भवति । वृद्ध-अाम्रमयम् । शालमयम् । शरमयम् । दर्भमयम्: शर । दर्भ । गृत् । कुटी । तृण । सोम । वल्वन । इति शरादयः ।। ९६-तालादिभ्योऽण् । अ० ॥ ४ । ३ । १५२ ॥ . तालादिप्रातिपदिकेभ्यो विकारावयवयोरण प्रत्ययो भवति । तालस्य विकारः तालं धनुः । अन्यत्र तालमयम् । वृद्धत्वान्मयट् : ( १ ) अस्मात्कोपधाचेत्याणि सिद्धे पुनःपाठो मयड्बाधनार्थः एतस्मिन् पक्षेऽपि मयण् मा भूदिति ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy