SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ गणपाठः॥ प्रतिपत् ॥ संवत्सरात् फलपर्वणोः ॥ सांवत्सरं फलम् । सांवत्सरं पर्व ॥ इति सन्धिवेलादयः ॥ ८४-दिगादिभ्यो यत् ॥ १०॥ ४ । ३६ ५४ ॥ सप्तमीसमर्थदिगादिप्रातिपदिकेभ्यो भवार्थ यत् प्रत्ययो भवति । अणश्छस्य चापवादः । दिशि भवं दिश्यम् : दिश । वर्ग । पूर्ग । गण । पक्ष । धाय्या । मित्र । मेधा । अन्तर । पथिन् । रहस् । अलीक । उखा । साक्षिन् । आदि । अन्त । मुख । जघन ( १ )। मेघ । यूथ। उदकात्संज्ञायाम् ( २ ) न्याय । वंश । अनुवंश । विश । काल । अप् । आकाश। इति दिगादयः ॥ ८५-वा-ज्यप्रकरणे परिमुखादिभ्य उपसंख्यानम्॥४३३५९॥ ___ अव्ययीभावसंज्ञकेभ्यः परिमुखादिप्रातिपदिकेभ्यो न्यप्रत्ययो भवति । नियमार्थ वार्तिकमिदम् । सूत्रेण सामान्याव्ययीभावाद् ज्यः प्राप्तो नियम्यते । परिमुखं भवं पारिमुख्यम् । पारिहनव्यम् । नियमादिह न भवति । उपकूलं भवमीपकूलम् : परिमुख । परिहनु । पर्योष्ठ । पर्युल । औपमूल । खल । परिसीर। अनुसीर । उ पसीर । उपस्थल । उपकलाप । अनुपथ । अनुखड्ग । अनुतिल । अनुशीत । अनुमाप । अनुयव । अनुयूप। अनुवंश । अनुस्वङ्ग । इति परिमुखादयः ॥ ८६-वा- अध्यात्मादिभ्यश्च ॥ ४ । ३ । ६० ॥ अध्यात्मादिभ्यो भवार्थे ठञ् प्रत्ययो भवति । अध्यात्म भवमाध्यात्मिकम् :अध्यात्म । अधिदेव । अधिभूत । आकृतिगणोऽयम् । इत्यध्यात्मादयः ॥ ८७-अण् ऋगयनादिभ्यः । अ० ॥ ४ । ३ । ७३ ॥ षष्ठीसप्तमीसमर्थेभ्य ऋगयनादिप्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोरण प्रत्ययो भवति । ऋगयने भवमार्गयनः । तस्य व्याख्यानो वा । अण्ग्रहणं बाधकबाधनार्थम् वाव स्तुविद्याया व्याख्यानो ग्रन्थो वास्तुविद्यः । अत्र छप्रत्ययो माभूत् : (१) मुखजघनशब्दाभ्यां शरीरावयवत्वादेव यति सिद्ध पुनरत्र दिगादिपु पाठो पऽशरीरावयवार्थः । सेनामुखे भवः सेनामुख्यम् । सेनाजघन्यम् । सेनाया अग्रपश्चाद्भागौ गृह्यते । तदन्तविधिना यत् ॥ (२) उदके भवा उदक्या रजस्वला । संज्ञाग्रहणादिह न भवति । उदके भव ग्र औदको मत्स्यः ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy