SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरुते अधिवासनप्रकरणम् । ( १०१ ) बल्यर्वपुष्पाक्षत धूपदीपैरभ्यर्चयेदक्षिणया च सर्वान् ॥ होमो दशांशेन च मंत्रजापात्ततो विधेयो मधुना समिद्भिः ॥ ॥ ३७ ॥ मंत्र प्रतिष्ठार्चनजाप्यहोमेष्वावाहने चैवं नियोज - नीयः ॥ पृष्ठे दिनेश प्रविधाय कुर्यात्पूर्वोदितं सर्वमुदारचेताः ॥ १८ ॥ ॥ टीका ॥ स्त्रयुग्मानि तैस्तैराच्छाद्य तान्पूर्वोक्तान् शुक्केन सूत्रेण विवेष्टयेत् ॥ १६ ॥ बल्यर्धति ॥ सर्वान् तानभ्यर्चयेत् पूजयेत् कैः बल्यर्थपुष्पाक्षतधूपदीपैरिति वलिः भक्ष्य वस्तुनः पुरो ढौकनम् । अर्ध : जलभृतपात्रस्य पुरः स्थापनं पुष्पाणि प्रसिद्धानि अक्षता: तंडुलाः धूपः पूर्व प्रतिपादितः दीपः प्रसिद्धः दक्षिणया चेति दक्षिणा होमानंतरं ब्राह्मणेभ्यो दानाहं द्रव्यं तथा ततः अभ्यर्चनानंतरं मंत्रजापात् मधुना क्षौद्रेण समिद्भिः होमो विधेयः केन दशांशेन दशमभागेनेत्यर्थः ॥ १७ ॥ मंत्र इति ॥ एषः मंत्रः प्रतिष्ठार्चनजाप्यहोमेषु आह्वाने च नियोजनीयः तत्र प्रतिष्ठा सर्वेषां सम्यक्प्रकारेण स्थापनम् अभ्यर्चनं चंदनादिनाऽनुलिंपनं जाप्यो जपः होमः पूर्वोक्तस्तेषु आवाहनं पूर्वोक्तानामाह्वानं तस्मिन्नर्थाद्विसर्जनेऽपि एतत्सर्वं पूर्वोदितं पृष्ठे पृष्ठभागे दिनेशं सूर्य विधाय कृत्वा कुर्यात् । कीदृक उदारचेता इति उदारं असंकुचितं चेतश्चित्तं यस्य स तथा पृष्ठे रविं विधायेति प्रतिपादनान् रजन्यामेव सर्वं कुर्यादित्यर्थी लभ्यते अथवा दिवसस्य चतुर्थप्रहरघटिका चतुष्कमारभ्य रात्रिटिकाचतुष्टयं यावत्पश्चिमादिशः प्रदीप्तवान्सूर्यस्तावत्सूर्यस्य पृष्टविधानत्वं युक्तमित्यर्थः । मंत्रश्चायम् । ॐ नमो भगवति पोकि कृष्णशकुनिश्वेतपक्षिणि पांडवो ॥ भाषा ॥ करें फिर अखंडित श्वेतवखनके युग्मलेके आच्छादनकरके फिर सबकूं श्वेतसूत्रकर वेष्टन करे ॥ १६ ॥ वल्पइति ॥ फिर उनको अर्ध्य पुष्प अक्षत धूपदीप बढिभक्ष्य और दक्षिणा इन करके पूजन करै ता पीछे जापते दशांश सहत और समिधाकरके हवन करो ॥ ॥ १७ ॥ मंत्र इति ॥ मूलमें ऊपर कह्यो जो मंत्र तासं प्रतिष्ठा देवतानको स्थापन और चंदनादिक करके लेपन करनो जप होम आवाहन या एकही मंत्रसूं सब करनो निर्जनव For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy