SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ वज्जालग्गं [635: ६६६ 635) गहिऊण चूयमंजरि कीरो परिममइ पत्तलाहत्थो। ओसरसु सिसिरणरवर लद्धा पुहवी वसंतेण ॥६॥ 636) किं करइ तुरियतुरियं अलिउलघणवम्मलो य सहयारो। पहियाण विणासासंकिय' व्व लच्छी वसंतस्स ॥ ७॥ 637) लंकालयाण पुत्तय वसंतमासम्मि लद्धपसराणं । आवीय लोहियाणं बीहेइ जणो पलासाणं ॥ ८ ॥ 635) [ गृहीत्वा चूतमञ्जरी कीरः परिभ्रमति प्रतीहारः। अपसर शिशिरनरवर लब्धा पृथिवी वसन्तेन ।। ] कीरः शुकश्चतमञ्जरी गृहीत्वा, अत एव पत्तलाहत्यो प्रतीहाररूपी परिभ्रमतीव । किमर्थम् । हे शिशिरनरपतेऽपसर वसन्तेन लब्धा पृथ्वी । अधुना तवानवसरः । वसन्तो गलगजितं' करिष्यतीति ॥ ६३५ ॥ 636) [किं करोति त्वरितत्वरितमलिकुलघनशब्दश्च सहकारः। पथिकानां विनाशाशङ्कितेव लक्ष्मीर्वमन्तस्य ।। ] किं त्वरितत्वरितम् अलिकुलघनशब्दः सहकारः करोति । पथिकानां जीवविनाशाशङ्कितेव लक्ष्मीर्वसन्तस्य ॥ ६३६ ॥ 637) [ लङ्कालयेभ्यः पुत्रक वसन्तमासे ( घसान्त्रमासे ) लब्धप्रसरेभ्यः । आपीतलोहितेभ्यो बिभेति जनः पलाशेभ्यः ।।] हे पुत्रक, जनः पलाशेभ्यः पलाशकुसुमेभ्यो बिभेति । केभ्य इव । पलाशानां, पलमश्नन्तीति पलाशा राक्षसास्तेभ्यः ( इव ) । किंविशिष्टेभ्य उभयेभ्यः । लंकालयाणं - लङ्कायां शाखायाम् आलयो येषां तेभ्यः । पक्षे,लङ्कायां रावणपुर्यामालयो येषां ते तथा ( तेभ्यः )। " नगरीशाखयोर्लङ्का" इति विश्वप्रकाशः । पुनः किंविशिष्टेम्यः । वसन्तमासे लब्धप्रसरेभ्यः । पक्षे, वसान्त्रमासे लब्धप्रसरेभ्यः । राक्षसा हि वसान्त्रमांसानि जग्ध्वा पुष्टा भवन्ति । पुनरपि किंविशिष्टम्यः । आपीतलोहितेभ्यः । आ समन्तात् पीतानि लोहितानि यः, तेभ्यः। पक्षे, आ समन्ततोभावेन पीतम् आस्वादितं रुधिरं यैस्ते, तेभ्य इति । वसन्ते हि पलाशानि पलाशकुसुमानि दृष्टा पलाशेभ्यः ( राक्षसेभ्यः ) इव पलाशेम्यः (पलाशकुसुमेभ्यः ) बिभ्यतीति ।। ६३७ ॥ 1G, I जियविणासासकिय व 2 G omits गल For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy