SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -498 : ५१.२] जोइसियवज्जा १३५ 496) इत्तो निवसइ अत्ता एत्थ अहं एत्थ परियणो सयलो। ए पहिय रत्तिअंधय मा मह सयणे निमज्जिहिसि ॥२५॥ ५१. जोइसियवज्जा [ज्योतिषिकपद्धतिः] 497) दीहरखडियाहत्थो जोइसिओ भमइ नयरमज्झम्मि। जाणइ सुकस्स गई गणइ जइ गणावए को वि ॥१॥ 498) जोइसिय मा विलंबसु खडियं घेत्तूण गणसु मह तुरियं । अंगारए पणढे सुक्कस्स गई तह चेय ॥२॥ mananananananana 496) [इतो निवसति श्वश्ररत्राहमत्र परिजनः सकलः । हे पथिक रात्र्यन्ध मा मम शयने निमंक्ष्यसि ] इतो निवसति स्वपिति अत्ता श्वश्रः । अत्राहम् । इतः परिजनः सकलः । हे रात्र्यन्ध पथिक मा मम शयने निमंक्ष्यसि । काचनाङ्गुल्या सकलपरिजनस्वापस्थान(दर्शन)व्याजेन पथिकस्य सुरताय समागच्छतो निशीथे आत्मनः स्थानं निवेदितवती ।। ४९६ ॥ 497) [ दीर्घखटिकाहस्तो ज्योतिषिको भ्राम्यति नगरमध्ये । जानाति शुक्रस्य गतिं गणयति यदि गणयति कोऽपि ||] ज्यौतिषिको नगरमध्ये भ्राम्यति । किंविशिष्टः । दीर्घखटिकाहस्तः । जानाति शुक्रस्य गतिं भार्गवस्यातिचारम् । अस्मिन् राशौ नक्षत्रे शुक्रो गतो गमिष्यति गच्छतीति । अतो यदि कोऽपि गणयति कथयेति प्रतिपादयति, तदा गणयतीत्यक्षरार्थः । भावार्थस्त्वयम् । दीर्घशेफो नगरमध्ये भ्राम्यति, शुक्रस्य सप्तमधातोर्गतिं स्तम्भनं कर्तुं जानाति । अतः कारणाद्यदि काचन याभ्यति तदा याभयतु । शुक्रस्तम्भनेन तस्याः सुरतसुखं पूरयामीत्यर्थः ॥ ४९७ ॥ 498) [ ज्योतिषिक मा विलम्बस्व खटिकां गृहीत्वा गणय मम त्वरितम् । अङ्गारके ( अङ्गरते ) प्रनष्टे शुक्रस्य गतिस्तथैव ।। ] ज्योतिषिक मा विलम्बस्व । मम गणय त्वरितम् । किं कृत्वा । खटिका गहीत्वा । अङ्गारके भौमे, पक्षे अङ्गरते। प्रनष्टे । शुक्रस्य मतिः शुक्रातिचारस्तथैवास्ते ॥ ४९८ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy