SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org -477: ५०.६ ] असईवजा 475) पेक्खह महाणुचोजं काणाघरिणीह जं कयं कर्ज । 'चुंबेवि' न लहु नयणं झडत्ति' नीसारिओ जारो ॥ ४ ॥ 476) पउरजुवाणो गामो महुमासो जोवणं पई थेरो । जुण्णसुरा साहीणा असई मा होउ किं मरउ ॥ ५ ॥ 477 ) देवाण बंभणाण य पुत्ति पसारण पत्तियं कालं । न हु जाओ अम्ह घरे कइया वि स प्तणकलंको ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir 475) [ प्रेक्षध्वं महाश्वर्यं काणगृहिण्या यत् कृतं कार्यम् । चुम्बित्वा न लघु नयनं झटिति निःसारितो जारः ॥ ] प्रेक्षध्वं महदाश्चर्यं काणगृहिण्या यत् कृतं कार्यम् । चुम्बित्वा काणस्याक्ष्येकं लघु निःसारितो जारः । काचिदसती अन्येन सह सुरतसौख्यमनुभवन्ती यावत्तिष्ठति तावदक्ष्णा काणस्तत्पतिः समाजग्मिवान् । तत उक्त्वा" " अयं मम प्रियतमः समागतोऽहं धन्या" इति तस्य द्वितीयमक्षि सरभसं चुम्बति स्म । तावज्जारो निः ससारेति भावः || ४७५ ॥ 476) [ प्रचुरयुवको ग्रामो मधुमासो यौवनं पतिः स्थविरः । जीर्णसुरा स्वाधीनासती मा भवतु किं म्रियताम् || ] असती मा भवतु, किं म्रियताम् । यतो यत्र (सा) वसति स ग्राम: प्रचुरतरुणः । ग्रामो भवतु, यदि तरुणा न भवन्ति, न असती । प्रचुरतरुणः । प्रचुरतरुणोऽपि भवतु, यदि मधुमासो न स्यात् । सोऽपि भवतु, यदि न तारुण्यम् । तदप्यास्तां, यदि न पतिः स्थविरः । पतिरपि वर्षीयान् भवताद्, यदि जीर्णसुरा स्वाधीना न भवति, पुराणं मद्यमात्मवशे यदि न स्यात् । एवंभूतेषु कामोद्दीपकेषु बहुषु प्रकारेषु यद्यसती न भवेत्तदा मरणं शरणं मन्येत ॥ ॥ ४७६ ॥ 11 चुबेविणु, 4 I मरणं शरणं नान्यत् । वल ९ 2 I atèfa, 3 I तत उत्थाय १२९ 477) [ देवानां ब्राह्मणानां च पुत्रि प्रसादेनैतावन्तं कालम् । न खलु जातोऽस्माकं गृहे कदाचिदपि सतीत्वकलङ्कः ॥ ] हे पुत्र, अस्मद् गृहे देवानां ब्राह्मणानां च प्रसादत एतावत्कालं न खलु जातः सतीत्वकलङ्कः, इयं सतीति कङ्कः ॥ ४७७ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy