SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [430 : ४४.९० 430) नयणमंतरघोलंतबाहभरमंथराइ दिट्ठीए। पुणरुत्तपेच्छिरीए बालय ता किं न भणिओ सि ॥९॥ 431) सुहय गयं तुह विरहे तिस्सा हिययं पवेविरं अन्ज । करिचलणचंपणुच्छलियतुच्छतोयं मिव दिसासु ॥१०॥ 432) सा तइ सहत्थदिनं अज्ज वि ओ सुहय गंधरहियं पि। उम्वसियणयरघरदेवय व्व ओमालयं' वहइ ॥ ११ ॥ पञ्जरशकुनायितं पञ्जरस्थितशकुनवत् आचरितम् । किंविशिष्टया तया । एकैकस्य वृतिवेष्टकस्य' विवरान्तरतरलदत्तनयनया । त्यामवलोकयितुं दत्तवृतिविवरनयनया पञ्जर स्थितशकुनवत् संजातमिति भावः ॥४२९॥ ___430) [ नयनाभ्यन्तरघूर्णद्वाष्पभरमन्थरया दृष्टया । पुनरुक्तप्रेक्षणशीलया बालक ततः किं न भणितोऽसि ॥ ] हे बालक ततः किमिति न भणितोऽसि । केन साधनेनेत्याह । दृष्टया । किविशिष्टया दृष्टया । नयनाभ्यन्तरघर्णद्वाष्पभरमन्थरया । पुनरुक्तं पुनः पुनः प्रेक्षणशीलया। किमिति न भणितोऽसि । त्वामवलोकयन्त्या त्वद्विरहाश्रुपातकलुषितया पुनः पुनः प्रेषितया दृष्टया भणितोऽस्येव ।। ४३० ।। 431) [सुभग गतं तव विरहे तस्या हृदयं प्रवेपनशीलमद्य । करिचरणाक्रमणोच्छलिततुच्छतोयमिव दिक्षु ।। ] हे सुभग त्वद्विरहे (तस्याः ) प्रकम्पनशीलं हृदयं दिक्षु गतम् । किमिव । करिचरणाघातोच्छलितं स्तोकं तोयं प्रकम्पनशीलं सद् यथा दिक्षु याति ।। ४३१ ॥ ____432) [सा त्वया स्वहस्तदत्तामद्याप्यहो सुभग गन्धरहितामपि । उद्वासितनगरगृहदेवतेवावमालिकां वहति ।।] हे सुभग, सा बाला त्वया स्वहस्तदत्ताम् । 'ओ' इत्यहो, ओमालियं अपमालिकां पुष्पमाला वहति । कदाचिच्छुभगन्धा भवेत्तर्हि वहतु नामेत्याह । गन्धरहितामपि । केव । उद्वासितनगरगृहदेवतेव । त्वद्दत्तां मालिकां त्वत्समर्पितस्थपनिकामिव( ? ) त्वत्संगमैषिणी वहतीत्यर्थः ।। ४३२ ।। 1 G ओमालियं 2 [ वृतिवेष्टितविवरान्तर For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy